Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 67
________________ एवंरीत्या शरीरं साधयित्वा स आसनसिद्धिमपि कृतवान् । ततः स प्राणायामं प्राणधारणं प्राणस्थिरीकरणं च शिक्षितवान् । तेन सहैव स हृदयस्पन्दनान्यल्पीकर्तुं निरोद्धं चाऽपि शिक्षितवान् । स तानि स्पन्दनानि तथाऽल्पयति स्म यथा तानि विरलतयैव श्रोतं शक्येरन् । अथ च श्रमणवृद्धान्मार्गदर्शनं प्राप्य श्रमणतन्त्रानुसारं मनोनिग्रहमात्मसंयम ध्यानं चाऽप्यभ्यसितवान् । स परकायप्रवेशमपि साधितवान् । अन्यदैको बको वंशपादपे उड्डीयाऽऽगतः । तं दृष्ट्वा सिद्धार्थस्तच्छरीरे स्वात्मानं प्रवेशितवान् । तेनैव शरीरेण स वनेषु पर्वतेषु चोड्डीनवान्, बकवत् तटाकतीरेषूपतिष्ठन् मत्स्यान् खादितवान्, कदाचित् बकक्षुधं सोढवान्, तद्भाषया भाषितवान् तन्मरणेन च मृतोऽपि । अथाऽन्यदा मृतमेकं शृगालं नदीतटे पतितं दृष्ट्वा तत्राऽपि स प्रविष्टवान् । ततो मृतशृगालो भूत्वा तट एव निपतितवान्, शोथं प्राप्तवान्, कुथितवान्, गलितवान्, तरक्षुभिश्च तस्याऽङ्गानि विघटितानि गृद्धैश्च भक्षितानि, प्रान्ते सोऽस्थिपञ्जरं भूत्वा ततश्च चूर्णीभूय वातावरणे सम्मिश्रणं प्राप्तवान् । एवं च सिद्धार्थस्याऽऽत्मा मरणं शटनं गलनं भस्मीभवनं चाऽनुभूय जीवनचक्रस्य दुःखपूर्णं परिभ्रमणमपि चाऽनुभूय स्वदेहे प्रतिनिवृत्तः । सिद्धार्थः, यत्र भवभ्रमणं समाप्तं भवति, यत्र कार्यकारणभावः शून्यतां प्राप्नोति यत्र च दुःखविहीना शाश्वतता प्रारभ्यते तादृशे बिन्दावागत्य, मृगयार्थमागतो व्याध इव दर्यां, नवतृष्णया प्रतीक्षारतः स्थितवान् । स स्वीयमिन्द्रियगणं दमितवान्, स्मृति विनाशितवान्, शरीरं परित्यज्य च सहस्रशो विविधान् रूपान् धृतवान् । स पशूभूय, कुणपीभूय, अश्मीभूय, काष्ठीभूय, वारीभूय चाऽपि पुनरुज्जागरणं प्राप्तवान् । प्रत्येकं सूर्योदये चन्द्रोदये च स पुनः स्वत्वं प्राप्तवान्, पुनरपि भवचक्रे दोलायितवान्, तृष्णया पीडितो भूत्वा, स्वपुरुषार्थेन तां तृष्णां निगृहीतवान् पुनश्च नूतनां तृष्णामनुभूतवान् । श्रमणानां सहवासात् स बहुतरं शिक्षितवानासीत् । स स्वात्मलोपनस्य प्रभूतान् प्रकारान् विज्ञातवान् । स स्वैच्छिकदुःखसहनेन पीडाजयेन चाऽऽत्मनिग्रहाध्वगोऽभवत् । एवं क्षुधाजयेन तर्षजयेन श्रमजयेन च स स्वनिग्रहं साधितवान् । स ध्यानसाधनया मनसः सर्वसङ्कल्पशून्यकरणेन चाऽपि स्वनिग्रहं साधितवान् । एवं चाऽनेकान् मार्गान् स साधितवान् । स सहस्रशः स्वविलोपनं कृतवान्, नैकदिनानि यावच्च शून्यत्वस्थितिं प्राप्तुं शक्तवान् । किन्तु, यद्यपि सर्वेऽप्येते मार्गास्तं शून्यीभवितुं समाधौ च स्थातुं नितरां सहायका भवन्ति स्म, तथाऽपि पर्यवसाने तु ते तं पुनरपि पूर्वतनस्थितावानयन्ति स्म । सहस्रशः सिद्धार्थः स्वशरीरं त्यक्त्वा बहिर्गतवान, शून्यत्वं प्राप्तवान, पशु-पक्षिषु पृथिवी-वनस्पत्यादिषु च स्वात्मानं प्रवेशितवांश्चाऽऽसीत्, तथाऽपि ततः प्रतिनिवर्तनं स्वशरीरे पुनरागमनं वा त्वपरिहार्यमेव भवति स्म । तन्मुहूर्तमनिवार्यमेवाऽऽसीत् यदा स दिवा वा रात्रौ वा छायायां वाऽऽतपे वा वर्षासु वा स्वं पुनरपि सिद्धार्थतया देहात्मभावेनाऽनुभवेत्,

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120