Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 20
________________ आर्यमहागिरिसंज्ञो, योगिप्रवरोऽजनिष्ट तत्पट्टे । अपि जिनकल्पोच्छेदे, जिनकल्पितुलां दधौ धीरः ॥१०॥ श्रीमानार्यसुहस्ति-स्तद्गुरुबन्धुः प्रभावको जातः । नृपसम्प्रतिमुपदिश्य, प्राभावयदार्हतं धर्मम् ॥११॥ जातौ शिष्यप्रवरौ कोटीमितसूरिमवजप्तारौ । सुस्थित-सुप्रतिबुद्धौ, यदुपज्ञः कौटिकाख्यगणः ॥१२॥ तत्पट्टे सञ्जातो नाम्ना श्रीइन्द्रदिन्नसूरीशः । श्रीदिनाभिधसूरि-स्तदीयपट्टेऽभवद् विज्ञः ॥१३॥ तत्पट्टाम्बुधिचन्द्रो, जातिस्मृतिमानमानसामर्थ्यः । श्रीसिंहगिरिर्जातः, सूरीशोऽनर्घ्यगुणकलितः ॥१४॥ तच्छिष्यो वजाख्यः, समजनि दशपूर्ववित्प्रथितवृत्तः । अक्षुब्धो नृपसंसदि, समगृह्णाद्यो रजोहरणम् ॥१५॥ प्रादादमरो यस्मै, सन्तुष्टो व्योमगामिनी विद्याम् । यत उद्भूता शाखा, सम्प्रत्यपि राजते वज्री ॥१६॥ (युग्मम्) श्रीवज्रसेननामा, तदीयपट्टे रराज सूरीशः । सोपारके विषाला-शनाल्यवारीज्जनौघं यः ॥१७॥ तत्पट्टे चन्द्राह्वः, सूरिर्जातो हि चन्द्र इव सौम्यः । यस्माद् गणस्य नाम, प्रवर्तितं चन्द्रगच्छ इति ॥१८॥ सामन्तभद्रसूरि-स्तत्पट्टमलञ्चकार विरतिरतिः । वनवासीति चतुर्थं, गणस्य नामाऽभवद् यस्मात् ॥१९॥ श्रीवृद्धदेवसूरिः, समजनि गुणरत्नरोहणस्तस्मात् । प्रातिष्ठिपत् प्रभुं यो, वीरं कोरण्टके ग्रामे ॥२०॥ श्रीप्रद्योतनसूरिः, प्रद्योतनवत्तदीयपट्टेऽभूत् । यो निजगवाउनुपमया, विश्वं प्राबोधयन्निखिलम् ॥२१॥ तत्पट्टोदयशैलं, द्योतितवान् मानदेवसूरीशः । यो निजबुद्धिमहिम्ना, सुरगुरुमपि सञ्जिगाय द्राक् ॥२२॥ यत्पददानावसरे, स्कन्धगते वीक्ष्य शारदाकमले । चारित्रच्युतिशङ्का-शीलं मत्वा स्वगुरुवर्यम् ॥२३॥ यावज्जीवं विकृतीः, षट् प्रत्याख्याच्च भक्तकुलभिक्षाम् । पद्मा-जयादिदेव्यो, यत्परिचर्यां च सञ्चक्रुः ॥२४॥ (युग्मम्)

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120