Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 58
________________ जर्मनभाषायां मूललेखकः हरमानहेसः सिद्धार्थः आङ्ग्लभाषायामनुवादकः हिल्डा-रोसनरः संस्कृतानुवादकः मुनिकल्याणकीर्तिविजयः भूमिका कश्चन पाश्चात्यदेशीयो दार्शनिको विद्वान् पौर्वात्यानि दर्शनानि तत्तत्त्वज्ञानमाध्यात्मिकतां चाऽऽत्मसात्कृत्य यदा साहित्यं सृजति तदा कः परिणामो जायेत ? तत्रैकस्मिन् पार्वे शुद्धा तार्किकता प्रमाणप्रतिबद्धता निष्ठा विश्लेषणमौदार्यं सरलतेत्यादीनि तत्त्वानि द्योतन्तेऽपरत्र च वेद-वेदान्तोपनिषदागम-त्रिपिटकादिषु विविधदर्शनशास्त्रेषु च वर्णितानि तत्त्वानि स्फुरद्रूपं चाऽध्यात्मज्ञानं प्रभासन्ते ।। जर्मनदेशीयो नोबेलपुरस्कारविजेता महाविद्वान् हरमानहेस एतादृश एव साहित्यकारोऽस्ति । पाश्चात्यं तत्त्वज्ञानं तु तेन सहजतयैवाऽऽत्मसात् कृतम्, सहैव पौर्वात्यं तत्त्वज्ञानमपि तयैव सहजतयाऽऽत्मसात् कृतमस्ति । अध्यात्मबोधोऽपि तस्य सहजविमलो वर्तते । एतच्च कथमिव जातमिति ज्ञातुं पूर्वभूमिकां पश्यामस्तावत् - ऐसवीये १८७७ तमे संवति जर्मनीदेशे लब्धजन्मनोऽस्य विदुषः पिता जर्मनीय एव धर्मगुरुरासीत् माता च फ्रान्सदेशीयाऽऽसीद् । मातामहश्च धर्मगुरुरेवाऽऽसीत् भारतीयतत्त्वविद्योपासकश्चाऽपि, यतस्तेन भारतदेशे एव खैस्तधर्मगुरुतया वर्षाणि यावत् कार्यं कृतमासीत् । स प्राकृत-पाली-संस्कृत-मलयालमबङ्गादिकास्त्रिंशदधिका भाषा जानाति स्म पौर्वात्यदर्शनानां च विशदमवगाहनं कृतवानासीत् । अथ च, हरमानहेसस्य पित्रा मात्रा चाऽपि भारतदेशे धर्मप्रचारकत्वेन कार्यं कृतमासीत् । एतैः सर्वैः कारणैस्तस्य गृहे पाश्चात्यदर्शनानां ड्रैस्तधर्मशास्त्राणां च यथा, तथैव पौर्वात्यदर्शनानां भारतीयधर्मशास्त्राणां चाऽपि परिशीलनं वरीवति स्म । ततश्चाऽऽबाल्यादेव हरमान-हेसः सर्वैरपि दर्शनैस्तत्त्वज्ञानेन च परिचितो जातः फलतश्च शान्तिप्रियो जातः, आध्यात्मिकता चाऽपि तस्योत्कटा जाता । १८९९तमाद् वर्षात् तस्य साहित्यसर्जनप्रवृत्तिः प्रारब्धा । १९१२तमे वर्षे स जर्मनीदेशं त्यक्त्वा स्विट्झर्लेन्डदेशं गतवान् मरणपर्यन्तं च तत्रैवोषितः । १९४६तमे वर्षे तस्य साहित्यविषयको नोबेलपुरस्कारः प्राप्तः । १९६२तमे वर्षे च स मरणं प्राप्तवान् । तस्य साहित्यं विश्वविश्रुतं जातं, विश्वस्य बह्वीषु भाषासु तदनूदितमपि जातम् । तस्य कृते वैश्विका अध्यात्मविदो गौरवं धारयन्ति प्रशंसन्ति च । तस्य गौरवं कुर्वतैकेनाऽध्यात्मविदैवमपि कथितमस्ति यत् ५०

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120