Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ (electro magnetic radiation) क्रीडाऽस्ति । एतेषां तरङ्गाणामत्यल्पमात्रास्तरङ्गा एवाऽस्मदिन्द्रियग्राह्याः सन्ति । यथा - अस्माकं श्रवणेन्द्रियं हि १६तः आरभ्य ३२,७६८मितकम्पनयुतान् तरङ्गानेव ग्रहीतुं समर्थं, न ततोऽपि परतः । एवमस्माकं चक्षुरिन्द्रियं ०.००००४ सेन्टिमिटतः ०.००००७ सेन्टिमिटर्मितानेव तरङ्गान् प्रत्यक्षीकर्तुं समर्थं, न ततः पूर्वतः परतो वा । एवमेवाऽन्येषामिन्द्रियाणामपि सामर्थ्यं मर्यादितमेव । अस्मदपेक्षया तु पशूनां पक्षिणां च विषयग्रहणसामर्थ्यं विशदतरं भवति । अस्मदिन्द्रियाग्राह्यतरङ्गाणामपि ग्रहणस्य सामर्थ्यं यद्यस्माभिः प्राप्येत (यथा क्ष-किरणानां ग्रहणसामर्थ्य) तदा तु काचन भिन्नैव सृष्टिरस्मत्समक्षं प्रकटीभवेत् । ततश्च फलितमिदं यद् या सृष्टिरस्माकं मनसेन्द्रियैश्चाऽनुभूयते सैव सत्याऽस्ति - इति तु न यथार्थं योग्यं च । यथार्था सृष्टिस्तु काचनऽन्यैव शून्यतापूर्णा या मनसेन्द्रियैश्चाऽवग्रहीतुमशक्या । यथा चेयं परितोऽनुभूयमाना सृष्टिः शून्यतापूर्णा तथैव सूर्य-चन्द्र-ग्रह-नक्षत्र-तारकादिभिर्निरन्तरतया व्याप्तं दृश्यमानं नभस्तलमपि तथैव शून्यतापरिपूर्णमस्ति । तच्च कथमिति विलोकयेम तावत् - पृथिवीं परित एकं परिभ्रमणं क्रियेत चेत् तदन्तरालं २५,०००माइलप्रमितं स्यात् । पृथिवीतश्चन्द्रस्याऽन्तरमेतदन्तरालात् दशगुणितमर्थात् २५०,०००माइलप्रमितं तथा सूर्यस्याऽन्तरं चतुःशतगुणितमस्ति । प्रतिघण्टं ५००माइलवेगेनोड्डयमानं विमानं विंशत्या वषैरेतावद्दूरं गन्तुं शक्नुयात् । सूर्यो हि पृथिवीतस्त्रयोदशलक्षगणितप्रमाणयुतः । एवमेवाऽन्येऽपि ग्रह-नक्षत्र-तारकादयः पृथिवीतो लक्षशोऽधिकप्रमाणाः । तथा सूर्यः पृथिवीतः सपादनवकोटि-माइलमितान्तरालेऽस्ति । पृथिवीतो नेदिष्ठाऽपि तारका एतदन्तरालात् २,७०,०००गुणितान्तराले स्थिता । दूरस्थितानां तारकाणामन्तरं माइलमानेन कथयितुं दुःशकमतस्तदर्थं विज्ञानिभिः प्रकाशवर्षमानं निश्चितमस्ति । प्रकाशो ोकेन वर्षेण यावद् दूरं गच्छेत् तावदन्तरालं प्रकाशवर्षतयाऽभिधीयते । प्रकाशस्य वेगो हि प्रतिक्षणं १,८६,०००माइलमितोऽस्ति । अनेन वेगेन समागच्छन् सूर्यस्य प्रकाशः पृथिवीं सपादाष्टनिमेषैः प्राप्नोति । तथाऽस्मत्तो नेदिष्ठतारकातः समागच्छन् प्रकाशः पृथिवीं प्राप्तुं सपादानि चत्वारि वर्षाणि गृह्णाति । उत्तराकाशे भ्राजमानाया ध्रुवतारायाः प्रकाशः ४०७वर्षेः पृथिवीं प्राप्नोति । ये हि पृथिवीतो दविष्ठा ग्रहादयस्तेषामधिकतममन्तरालं ६६,०००प्रकाशवर्षप्रमितमस्ति । अर्थात्, अद्याऽस्माकं तारकाणां यत् स्वरूपं प्रत्यक्षीभवति तद् वास्तविकतया तु सहस्रशो वर्षेभ्यः पूर्वतनं भवति । कदाचित् त्वेवमपि भवेद् यदद्य यां तारकां वयं प्रत्यक्षीकुर्मस्तस्या नाशः कियतोऽपि कालात् पूर्वमेव जातः स्यात् । आकाशतले दृश्यमानानां कोटिशस्तारकाणां सम्मीलनेनैकं ताराविश्वं भवति । एतस्मिन् ताराविश्वे सूर्यसदृशा अर्बुदद्वयमितास्तारकाः सन्ति । प्रत्येकं च ताराः परस्परमर्बुदशो माइलानामन्तराले सन्ति । * The world would appear for different to him if his eyes were sensitive, for example to Xrays. - Lincoln Barnett, The universe and Dr. Einstien ३८

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120