Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ ब्राह्मे मुहूर्ते कृते स्नाने, धूते अम्बरे, देवमन्दिरे, स्वाध्यायार्थं पद्मासनेऽपि, चतुर्दिक्षु दृष्टिपातं कुर्वाणं चञ्चलं, दृष्ट्वा जनं; एका कलिका विहस्याऽभाषत भोः ! किं क्रियते ? भ्रान्त इव क्षुब्धः अवदत् न-न-न-किञ्चित्, पश्यामि प्रकृतिम् । एवमेव ? ओमिति । अरे ! पूर्वं पश्य स्वां प्रकृतिम् - - स्थिरां कुरु ताम् । स्थिरत्वे तत्र, स्थैर्यं सर्वत्र । अन्यथा, अतो भ्रष्टस्ततो भ्रष्टः सर्वतो भ्रष्टः, भविष्यसि नष्टः । ३५ कथयति कलिका * ॥ डॉ. वासुदेव वि. पाठकः 'वागर्थः ' स्थिरो भव, धीरो भव । शान्तिरस्यात् फुल्लत्वं स्यात् । प्रफुल्लस्त्वम्, पश्य मां प्रफुल्लाम्, स्पर्श मां प्रफुल्लाम्, स्पर्श स्पर्श सुकोमलाम् । मुदितो भविष्यसि माधुर्यमनुभविष्यसि । कुरु मनने मां महनीयाम् । कवय कवय मां कमनीयाम् । एवं जाते, स्यान्मत्रत्वम् मन्त्रत्वे स्यादनुरणनम् । प्रसृतं दिव्यं काव्यं स्यात्, कवित्वे कल्याणं ते स्यात्, परानन्दस्येवाऽऽप्तिस्ते स्यात् ॥ * अत्र काव्ये काsपि कलिका, चञ्चलमनस्कं भक्तं, प्रफुल्लतार्थं, परानन्दार्थं च बोधयति हसन्तीव । D ३५४, सरस्वतीनगर, आंबावाडी, अमदावाद- १५

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120