Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 21
________________ श्रीमानतुङ्गनामा, सूरितिस्तदीयपट्टधरः । प्रतिबुबुधे नृपतिं यो, विरच्य भक्तामर स्तोत्रम् ॥२५॥ श्रीमान् वीराचार्य-स्तदीयपट्टेऽजनिष्ट सूरीशः । श्रीनमिजिनप्रतिष्ठा, नागपुरे यो व्यधाद् वर्याम् ॥२६॥ श्रीजयदेवाभिख्य-स्तत्पट्टप्रभाकरोऽभवत्सूरिः । यो वादिनो व्यजैषी-निरूप्य जैनेन्द्रसिद्धान्तम् ॥२७॥ देवानन्दाभिधानः, सूरीशोऽभूत्तदीयसत्पट्टे । तत्पट्टे सूरीशो, विक्रमनामाऽभवत्पूज्यः ॥२८॥ सूरिस्तदीयपट्टे, श्रीनरसिंहः श्रुतार्णवो जातः । येन पुरे नरसिंहे, मांसं सन्त्याजितो यक्षः ॥२९॥ तत्पट्टोदधिजन्मा, समुद्रनामाजनिष्ट सूरीन्दुः । वशमकृत नागतीर्थं, विजित्य दिग्वाससो वादे ॥३०॥ प्रापाऽम्बिकामुखाद्यो, विस्मृतमपि सूरिमंत्रमिद्धतपाः। हरिभद्रसूरिमित्रं, स मानदेवस्ततो जातः ॥३१॥ विबुधप्रभसूरीशस्तदीयपट्टेऽजनिष्ट दृढधर्मः। तत्पट्टेऽजनि सूरिः, श्रीमान् पूज्यो जयानन्दः ॥३२॥ स श्रीरविप्रभाख्यः, सूरीशोऽजायताऽनवद्ययशाः । नडुडुलपुरे प्रतिष्ठां, चकार यो नेमिनाथविभोः ॥३३॥ तत्पट्टाम्भोधिविधुः, सूरियशोदेवसज्ञको जातः । प्रद्युम्नदेवनामा, सूरिस्तत्पट्टधारको जज्ञे ॥३४॥ तत्पदमलरिष्णु-र्जातः श्रीमानदेवसूरीशः । उपधानविषयशास्त्रं, निर्मायाऽरीरमल्लोकान् ॥३५॥ तत्पट्टालङ्कारो, जातः श्रीविमलचन्द्रसूरीशः । यो हेमसिद्धिविद्यां, प्राप्तोऽजैषीत्परान् वादे ॥३६॥ तत्पट्टाम्बुजतरणिः, श्रीमानुद्योतनाभिधो जातः । अर्बुदगिरेरधस्तात्-टेलीपुरसीम्नि सङ्गत्य ॥३७॥ वटवृक्षाधो योऽष्टौ, सूरीन् प्रातिष्ठिपन्निजे पट्टे । तस्मादभूगणोऽयं नाम्ना वटगच्छशुभसञ्जः ॥३८॥ तत्राऽभवत्प्रशस्यः, सूरि: श्रीसर्वदेवनामा यः । प्रास्थापयत्सुचन्द्र-प्रभबिम्बं रामसैन्यपुरे ॥३९॥

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120