Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 16
________________ ततः सती लज्जिता सा शङ्करपार्श्वमागता । पृष्टोवाच सा - भगवन् ! तं प्राणमं भवानिव ॥५॥ पुनः शिवो नाऽवदत्तां स्वत्यागं जानती सती । गच्छाम्यहं पितुर्यज्ञे कथयित्वा जगाम सा ॥६॥ शिवभागं नाव दृष्ट्वा यज्ञस्याऽग्नौ पपात सा । ज्ञात्वा शिवो वीरभद्रं संप्रेष्य यज्ञमध्वसत् ॥७॥ स्वयं गत्वा त्रिशूलेन दक्षस्य शीर्षमच्छिदत् । पुनः श्वश्रूप्रार्थनेन त्वजमुण्डमयोजयत् ॥८॥ ततः सत्या जन्म लेभे मैनाहिमवतोहे । पितृभ्यां पार्वती सोक्ता हर्षो जातो हिमालये ॥॥ विवाहोऽस्याः शङ्करेण भविता नारदोऽवदत् । तपसा स प्रसन्नः स्यादतः पुत्रि ! तपः कुरु ॥१०॥ पित्रोराज्ञां गृहीत्वा सा तपसे पर्वतं गता।। ततो देवाः समाधिस्थं शिवमागत्य प्रार्थयन् ॥११॥ तारकासुरं पुत्रस्ते प्रभो ! युद्धे हनिष्यति । विवाहं कुरु पार्वत्या समाधित्यागतो द्रुतम् ॥१२॥ प्रसल: शङ्करोऽवादीद् गच्छ पार्वति ! स्वगृहम् । वरयात्रां गृहीत्वाऽऽशु परिणेष्यामि त्वामहम् ॥१३॥ हिमालयं ततो गत्वा विवाहे देवकारिते । तयोः पुत्रः कार्तिकेयस्त्ववधीत्तारकासुरम् ॥१४॥ नमः शिवपार्वतीभ्यां श्रीकार्तिकेयाय मे नमः । ब्रह्मणा विष्णुना सार्धं प्रसन्नाः सर्वदेवताः ॥१५॥ पीताहालाहलं शम्भु नीलकण्ठं त्रिशूलिनम् । गङ्गाधरं चन्द्रमौलिं नमामि पार्वती-पतिम् ॥१६॥ २९५/१४, पट्टीरामपुरम्, खेकड़ा (बागपत) उ.प्र. २५०१०१ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110