Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
नूतनग्रन्थपरिचयः
वागीश्वरीकण्ठसूत्रम् (आधुनिकं काव्यशास्त्रम्) (स्वोपज्ञवृत्ति-हिन्द्यनुवादसमेतम्) प्रणेता आचार्यहर्षदेवमाधवः सम्पादकोऽनुवादकश्च डॉ. प्रवीण-पण्ड्या प्रकाशकः
राष्ट्रीय संस्कृतसंस्थानम्, ५६-५७, इन्स्टिट्युशनल एरिया,
जनकपुरी, नवदेहली - ११००५८ प्रथमसंस्करणम् २०११, मूल्यम् रू. २४०/
आधुनिककाव्य-साहित्यकारेषु मूर्धन्यं स्थानं भजतः कविमहोदयस्य डॉ. हर्षदेवमाधवस्य नाम विश्रुतमेव संस्कृतसाहित्यजगति । स्वीयकाव्येषु नवनवान् प्रयोगान् कुर्वाणोऽयं महाभाग इदानीं नूतनसाहित्यशास्त्रविचारसरणिसमुद्घाटकत्वेनाऽलङ्कारशास्त्रग्रन्थग्रथनेऽपि स्वीयां प्रतिभा विनियुञ्जान आधुनिकसंस्कृतसाहित्यविकासार्थं सर्वप्रकारैः प्रयतमानो दृश्यते ग्रन्थस्याऽस्य विरचनेन ।
ग्रन्थस्याऽस्याऽन्तःसत्त्वमेवं प्रस्तौति मूर्धन्यः संस्कृतसाहित्यकार आचार्यश्रीराधावल्लभ-त्रिपाठिमहोदयः -
___ अस्मिन् षट्स्वध्यायेषु रस-गुणालङ्कारादयः पूर्ववर्तिभिराचार्यविमृष्टा विषया नवीनदृशा पुनरुन्मीलिताः, मैत्री-मुदिता-करुणोपेक्षेति-चतसृभिर्मूलवासनाभिः कथं समग्रं वाङ्मयमधिवासितमिति च सोदाहरणं निदर्श्य दशरूपककारादिभिर्दिङ्मात्रं प्रदर्शितः पन्थाः प्राशस्त्यं प्रापितोऽस्ति । अथ च मार्क्सवादास्तित्ववादपरावास्तववादप्रभृतिनवीनवादानां दलितसाहित्य-नारीसाहित्यादिनवप्रस्थानानां बिम्बविधानादिनव्यकाव्यकोटीनां चेदम्प्रथमतया प्रामाणिके विचारे प्रभविष्णुः साहित्यसंसारजिष्णुः प्रस्तौति तद्विचारमत्र हर्षदेवः ।।
तदेवं ग्रन्थोऽयं संस्कृतसाहित्यसेविनां कृते नूत्लैकां दिशं समुद्घाटयिष्यति - इत्यत्र नास्ति शङ्कालेशः ॥
४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110