Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
मर्म नर्म
कीर्तित्रयी
ग्राहकः (आपणिक) भवता यदिदं रेडियो-यन्त्रं मे विक्रीतं तस्य ध्वनिगुणवत्ताऽतीव श्रेष्ठाऽस्ति,
किन्तु अहं तत् परावर्तयितुमिच्छामि यतस्तत्र उत्तमाः कार्यक्रमा न प्रसार्यन्ते !! आपणिकः ...!!...
अपूर्वः भवतो यावतीं प्रशंसां करोमि तावत्यल्पैव ! अद्वितीयः अद्य भवता मे महत्त्वं ज्ञातं खलु ? अपूर्वः नैव भोः ! अद्य मयैतज्ज्ञातं यन्मूर्खसमक्षमलीकोच्चारणेऽपि न काऽपि बाधेति !!
दग्धः भवान् भवतः सहभागी (Partner) च कथं वाणिज्यं कुरुतः ? दुर्विदग्धः सहभागिना धनं विनियोजितमस्ति, मया त्वनुभवो विनियोजितोऽस्ति, वाणिज्यं च
वर्षत्रयावधिकं भविष्यति । दग्धः वर्षत्रयानन्तरं किं भविष्यति खलु ? दुर्विदग्धः मत्पार्वे धनं भविष्यति सहभागिनश्च पार्वेऽनुभवः !!
ज्ञः
सुज्ञः
भवान् पर्यटनसमये किमिति कदाऽपि भवत्पत्नीं न नयति ? कारणद्वयमत्राऽस्ति । प्रथमं तावत् – व्ययोऽ| भवति, द्वितीयं तु - आनन्दो द्विगुणो भवति !!
९०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110