Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
दृष्ट्वा तु तस्य विस्मयो द्विगुणितः सञ्जातः ।
किन्तु स लघुदृष्टिर्नाऽसीत् । स तु लघुहस्त आसीत् । अतः किञ्चित् पर्यालोच्य प्रधानमुद्दिश्य तेन पृष्टम् - " कथं मन्त्रीश्वर ! किमिदम् ?"
‘‘महाराजाः ! महात्मजोगेश्वरमहाराजाः कालधर्ममप्राप्नुवन् ततः ।" मन्त्रिणा सर्वं पारम्परिकं प्रत्युदितम् ।
-
श्रुत्वा वार्तामिमां राज्ञा परम्परीणः प्रश्नो न कृतः, तेनेतरतः पृष्टो मन्त्री यद्मन्त्री प्रतिवक्तुं न शशाकाऽतो व्याकुलितः स मक्षु धीप्रदर्शनं कुर्वन्नवदत् – “स.... स कोऽस्ति, तत्तु नाऽहं वेद्मि । एतदर्थं नगर श्रेष्ठी प्रष्टव्यः ।"
राज्ञा नगर श्रेष्ठी पृष्टस्तदा सोऽपि उवाच
"नाऽहं जानामि राजन् ! अहं त्वन्येन ज्ञातवान् ।” एवं 'चलकचलाणु' इति नाम्ना गुर्जरभाषायां ख्यातिप्राप्तं बालक्रीडनमिव चक्रगतिश्चलिता । इत्थममुष्याऽऽपणिकस्याऽऽख्याऽऽगता । आपणिको राजसभायां समाहूतः पृष्टश्च तदा तेनाऽपि तदेव गानमालपितम् – “नाऽहं जानामि कृपालो ! असौ ब्राह्मणपण्डितो जानाति । अस्या वार्ताया मूलायतनं स एवाऽस्ति ।"
—
ततो राजा पण्डितमाकार्य तस्योपरि प्रश्नावलिं वर्षितवान् – “पण्डितवर्य ! कीदृशो जोगेश्वरमहाराजोऽ म्रियत ? कुत्राऽस्ति तस्याऽऽ श्रमः ? कीदृशी महासाधना तेन साधिता ? पश्चात् कियतः शिष्यान् मुक्त्वा गतोऽस्ति ?"
" को जोगेश्वरमहाराज: ?"
राजप्रश्नावलिं श्रुत्वा व्यामोहितेन पण्डितेनाऽल्पक्षणान्तरं रहस्योद्घाटनं कृतम् - " हे क्षमाशील ! राजन् ! क्षमस्व माम्, जोगेश्वरमहात्मा कश्चिदपि मानवो नाऽऽसीत् । किन्तु स रासभ आसीत् । कस्यचित् कुलालस्य गृहे निवसन् तस्याऽऽत्माऽतीवोत्तम आसीत् । प्रत्यहं मम वेदमातृकापाठकाले स रासभो बुक्कन्नासीत्। कस्याश्चित् सद्गतेरतिथिर्भावीत्यनुभवामि ।" समाकर्ण्येदं राजा मुक्तकण्ठेन प्रहसितवान्।
ह्रीजनकमेतादृशं रहस्यस्फोटं श्रुत्वोपहासपात्रीभूतास्तत्र स्थिता मन्त्रि - नगर श्रेष्ठि- आपणिकप्रभृतयो मुण्डिता नगरजनाः पादाघातमन्वभवन् । कस्मैचिद् रासभाय वयं मुण्डिताः स्मेत्यसम्भववार्तां ज्ञात्वा सर्वेऽप्यति - लज्जितवन्तः ।
कथं घटितेयं हास्यप्रदाऽऽख्यायिका ? सदसद् - शिष्टाशिष्टस्याऽऽचारस्याऽज्ञानादेव घटिता । अतस्तु सर्वथा वर्जनीयमन्धधावनम् । संस्कृतेऽत एवोच्यते यद् 'परबुद्धिर्विनाशाय' । अस्माभिरियमुक्तिर्हृदयमन्दिरे सदैव प्रतिष्ठापनीया ।
Jain Education International
प्रान्ते पुनरुच्यते सदाचारः खलु सेवनीयः । किन्तु तत्पूर्वं सारासारविवेकः करणीयः । अस्मात् कारणाद् यत् किञ्चिदपि कुर्मो वयं तत् सम्यग्ज्ञानपूर्वकमेव कार्यम् । वयं सारासारविवेकेनाऽऽचारज्ञानं प्राप्नुयाम । पश्चाच्च सदाचारे शिष्टाचारे च साम्ना प्रवर्तनीयम् ।
O
७५
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110