Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
स्थानादवतारयितुं कुतन्त्रं कुर्वाणाः, विरोधिपक्षीयेभ्योऽपि नितान्तं विरोधिनः शासका मुख्यमन्त्रिणो वामपार्वे आप्ता इव तिष्ठन्ति स्म । तदानी नभस्यल्पीयांसो मेघा घनीभूताः । द्वित्रा जलबिन्दवो नभसः पतिताः । कश्चित्तावता छत्रं विस्तार्य धृतवान् मुख्यमन्त्रिण उपरि । तथा छत्रं धृतवान् किल प्रभूतव्यवहारवान् कोट्यधिपतिर्मार्गनिर्माणव्यवसायीति ख्यातः । मन्दं वान् वायुः सिद्धज्जशिरस उपरि स्थितं वृक्षं कम्पयति स्म ।
पुनर्मुख्यमन्त्री "कः परिहारस्त्वयाऽपेक्षित इति ब्रूहि" इति वदन् पत्रकाराणां दिशि अवधानं प्रेषयत् । सिद्धज्जः स्वजिह्वाग्रस्थितानि वचनानि उदचारयत् "तात ! त्वत्तोऽहं किमपेक्षे? त्वं न दाता । सर्वं ददाति पूर्वसीमाया शैलमादेश्वरः । धरावरिष्ठो मण्टेस्वामी वा । यः परमात्मा सर्वेषामुपरि, तेन दातव्यम् । तदाऽस्माकं खलु उदरं पूरितं भवति । यदुदरं मुष्टिभरेणाऽन्नेन पूर्यते, तेन किमपेक्ष्यते ? यदि त्वं दातुमिच्छसि तहि सदा मदुरसि लग्नानि तम्बूर-गग्गर-मुखवीणावाद्यानि गवेषयित्वा देहि तात !" इति ।
आकाशस्य मेघः, ततः पतन् वारिबिन्दुः, वान् वायुः, पुरःस्थितो वृक्षः, तत्पाबें स्थितानां वृक्षकाणां पल्लवाः, पुष्पं, शलाटुः, प्रकृते ाग इव स्थितः सिद्धज्जः, तत्कण्ठस्य रागः, रागावलम्बनीभूतं तम्बूरगग्गरादिकं तत्सर्वमपि स्वेन रूपयितुमशक्यमिति मुख्यमन्त्रिणो मनसि शनैर्भातम् । तस्याऽन्तरङ्गं पूर्यते स्म । प्रतिदिनं तस्य आप्ता इति कथ्यमानानाम्, अधिकारिसमूहस्य, मन्त्रिवर्याणां च प्रयाचना, गुणोत्तम्भनं, लब्धस्य धनराशेनिगूहनस्य क्लेशः, तत उत्पन्ना समस्या, तन्निवारणायै प्रयोक्ष्यमाणं प्रतितन्त्रं, मध्ये समुत्पद्यमानं वैमनस्यमित्येतेन मुख्यमन्त्रिणो नयनाभ्यां रक्तमेव स्रवति स्मेति सत्यम् । सिद्धज्जवदहमपि एकाकी ग्रामाद् ग्रामं चलितुं यदि शक्नुयां, यदि च चन्द्रिकायां काननानां मध्ये संचरितुं शक्नुयां, कुट्याः पुरःशालायां निद्रां कुर्वते मह्यं यदि केपि केऽपि अन्नं ददीरन्, सिद्धज्जवद् गानेन जनानां मनांसि स्पृष्ट्वा तेषां प्रीतेः पात्रं भवेयं चेद् इतीच्छा मुख्यमन्त्रिणो मनसि तीव्रतयोदपद्यत । तस्याः स्मृतिरेव घटिकापर्यन्तमाह्लादमजनयत् । सिद्धज्जस्य विषये तस्य मनसि जाताऽऽर्द्रता तस्य नयनयोरपि दृष्टा । सिद्धज्जेन कृतां विज्ञप्ति सफलयितुं न शक्यमित्यपि मुख्यमन्त्रिणो भाति स्म । पूर्वेद्युः प्रातर्लक्षजनानां कोलाहलं नियन्त्रितं कृत्वा प्रवादमेव (अथवा मायामेव) सृष्टवान् सिद्धज्जः सम्प्रति च तादृशमेव दिव्यमौनं मूर्तं कृत्वा सर्वेषां पुरस्तात् मनुष्यवत्, रिक्तपादः सन्निव, ध्यानमग्न इवाऽतिष्ठत् ।
90, 9th Cross Naviluraste,
Kuvempunagar, MYSORE 570023
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110