Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 82
________________ न वा ?' संशयालुः पण्डितो व्याकुलोऽभवत् । अतो मन्त्रजापं समाप्य सद्यः कुम्भकारस्य गृहं गत्वा तेन पृष्टः कुलाल: "अहो ! नमो भ्रातः ! कुत्र गतः स उत्तमो जीवः ?" ___ कुम्भकारोऽपि सनमोवाकमब्रवीत् - "का? असौ 'जोगियो' रासभः ?" "अरेरे ! महानुभाव ! 'जोगियो' इति न वक्तव्यं, किन्तु 'जोगेश्वरमहाराज' इति वक्तव्यम् ।" पण्डितेन कुम्भकारोऽनुरुद्धः पश्चाच्च पृष्टः - "स त्वतिमहानात्मा हो ! हंहो, तस्य किमभवत् ?" "पण्डितवर्य ! तस्य तु गतेऽह्नि प्राणात्ययोऽभवत् ।" श्रुत्वेदं कर्णौ पिधायाऽतिखिन्नः पण्डित उक्तवान् – “किम् ? स्मरणपदवी प्राप्तवान् ? हा ! हा ! शान्तं पापम् । अरेरे ! कीदृशो महामान्यो जीवः । अथाऽतोऽस्माभिः किं कर्तव्यम् ? एतादृशो महान् जीवो यदा म्रियेत तदानीं तत्पश्चाद् वयं यदि किमपि न कुर्याम तर्हि त्वस्माकं धार्यमेव स्यात् । तदर्थं किञ्चिद् लब्धनाम कार्यं कर्तुं वयमक्षमाः । परं, शेषे शिरो मुण्डित्वा नदीनानं त्ववश्यं कुर्मः ।" विचिन्त्यैवं पण्डितो शिरोमुण्डनं कृत्वा स्रोतस्विनीमगच्छदस्नाच्च । स्नात्वा च पुरीं प्रति पुनरागच्छन् तत्र रथ्यायां शृङ्गाटके वाणिजेनैकेनाऽङ्गुल्या शीर्षं दर्शयित्वा पण्डितः पृष्टः "अये वागृषभ ! किमिदम् ? अद्य किमस्ति ? कश्चिदम्रियत किं ?" पण्डितः प्रत्यब्रवीत् – “रे भ्रातर् ! न जानासि किम् ? अद्य महात्मानो जोगेश्वरमहाराजा अम्रियन्त ।" जगति लोकास्तु शश्वदक्षिणी निमील्य धावनस्वभावा सन्ति । लोकगतिश्च भूयसा गतानुगतिका भवति । प्रायेण जगदिदं सत्यं किम् ? इति नाऽन्वेषयति । तत एव कथितमपि यद् 'गतानुगतिको लोको, न लोकः पारमार्थिकः ।' अत्राऽप्येवं जातम् । पण्डितस्य पूर्वोक्तेनोत्तरेण सहैव लोकानामविचार्य धावतामेकं हास्यप्रदं प्रकरणं प्रारब्धम् । 'जोगेश्वरमहाराजा मृताः' इति विज्ञाय वणिजा पुनः पृष्टो विप्रो यद् – “तदानीं तु पण्डितवर ! मयाऽपि किञ्चिद् विधातव्यं ननु ?" विप्रेण कथितम् - "तस्मिन् पृच्छसि किम् ? अवश्यं विधातव्यमेव, तस्मिन् संशीत्याऽलम् । रे ! आपणं विक्रीय धर्मदानं कुरुष्व तदप्याभ्युदयिकं भवेत् । चरमं शीर्षमुण्डनं तु शीघ्रं कर्तव्यमेव ।" संवादमिति कृत्वा वणिगपि पण्डितमनुसृतवान् । सोऽपि मुण्डितोऽभवत् । इयता विपण्यां क्रयिका आगताः । आपणिकं मुण्डितं निरीक्ष्य साश्चर्यास्ते पृष्टवन्तो यद् – “अयि भ्रातः ! अद्य किमस्तीदम् ? कश्चन स्वजनो मृतः किम् ?" आपणिकः प्राह – “रे भ्रातरः ! किं कथयेयम् ? मृत्युस्त्वभवत्, किन्तु सोऽप्यनन्यसाधारणो मृत्युः । अमी महात्मानो जोगेश्वरमहाराजा अम्रियन्त ।" ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110