Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 83
________________ "एवम् ? महात्मानोऽम्रियन्त ? तदानीं त्वस्माभिरपि किञ्चित् कर्तव्यं ननु ?' क्रयिका मनोगतं पृष्टवन्तः । आपणिक उवाच - "अरे ! महानुभावाः ! यावत् करिष्यथ तावदल्पम् । पारमिको जीवः, अन्ते शीर्षं तु निश्चयाद् मुण्डयितव्यमेव ।" ततः केचिज्जना नापितं निकषा चेलुः । पश्चात्तु नैके पौरजनाः पदशो मुण्डमण्डलानुगामिनोऽभवन् । समग्रनगर्यां विशेषतश्च हट्टेऽयं शीर्षमुण्डनज्वरो वातालीमिव प्रसृतवान् । इतस्ततः खल्वाटान् पौरा विलोकयन्त आसन् । तावति तत्र नगर श्रेष्ठी समागतवान् । मुण्डितकुलं विलोक्य कौतुकदृष्ट्या तेन पृष्टाः पौराः - "भोः बान्धवाः ! किमस्तीदम् ? इमे सर्वे..... ???" श्रेष्ठिनो वचनं निरुध्य मध्य एव कश्चिदुवाच - "अहो श्रेष्ठिवर्य ! न जानासि ? नगर्यां हाहाकारः प्रसृतोऽस्ति । अमी महात्मानो जोगेश्वरमहाराजा अम्रियन्त । ततो नगरजनाः शोकातुराः सन्ति ।" "किं कथयसि ? प्रसभम् ! महाप्रसभम् ! एतादृशा जीवा जायन्ते विरलाः, जाताश्च यदा म्रियन्ते तदा मादृशेन तु प्रथमं शीर्षं मुण्डयितव्यम् ।" अन्यं कञ्चिदपि धनव्ययं कर्तुमनिच्छन् विदग्धः श्रेष्ठी मुण्डनार्थं स्वयमेव सज्जोऽभवत् । शीर्षमुण्डनज्वरो नगर्यामाशुगत्या प्रसृतिमाप्नोत् । आनगरजनादेतादृशा नगर श्रेष्ठिपरा अपि तच्चक्रे समागता आसन् । सर्वे विदग्धाः कोविदाश्चाऽपि गतानुगतिकतामेवाऽनुसरन्ति स्म । केचिदप्येवं न पृच्छन्ति स्म यद् ‘कीदृशा जोगेश्वरमहाराजाः ? कुत्र तन्निवासः ?' जाने गतानुगतिकतैव सर्वेषां सात्त्विकमार्गस्तात्त्विकमन्त्रश्च न स्यात् ? अथ शिरोमुण्डनं कृत्वा पौर श्रेष्ठी सचिवालयमीयिवान् । श्रेष्ठिनं खल्वाटं दृष्ट्वा मन्त्रिणा पृष्टम् - "अद्य किमस्ति श्रेष्ठिवर्य ? स्वजनेषु कश्चिदपि मृतवान् किम् ?" श्रेष्ठी प्राह - "धन्यम् ! मन्त्रीश्वर ! भवान् न जानाति नूनम् ? अमी महात्मानो जोगेश्वरमहाराजाः कालधर्ममप्राप्नुवन्, भवाँश्चाऽज्ञातः ?" अतो मन्त्रीश्वरेण कथितम् - "श्रेष्ठिवर्य ! महात्मानोऽम्रियन्त ततो मयाऽपि किञ्चिदाचरितव्यं ननु ?" "मन्त्रिवर्य ! गरीयेभ्यो महात्मभ्यः प्रस्तावसदृशं किञ्चिदवश्यमाचरितव्यम् । अन्ततः शीर्षमुण्डनं तु कर्तव्यमेव त्वरितं ।" श्रेष्ठी प्रेरितवान् सचिवम् ।। अतो मन्त्रिणाऽपि शिरोमुण्डनं कृतम् । अथ राजपरिषदः समये मन्त्रि-श्रेष्ठिप्रभृतयो नैके प्रजाजना राजसभायां समागताः । तेषु नैकान् जनान् खलतीन् विलोक्य राजाऽपि विस्मितलोचनो बभूव । तेषु स्वस्य धीनिधानं सचिवमपि समाविष्टं ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110