Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 76
________________ मर्म गभीरम् मुनिकल्याणकीर्तिविजयः (१) यदि समयो न स्यात्..... कश्चन साधकः कदाचित् पर्यटनान्निवर्तमान आसीत् । तदीयं बसयानं स्वल्पकालाय कुत्रचित् स्थानकेऽतिष्ठत् । ततश्च क्षुधाद्याकुला जना अधोऽवतीर्य तत्र स्थितमुपाहारगृहं प्राप्ताः । अयमपि गतवान् । तच्चोपाहारगृहं सुतरां स्वच्छं सुन्दरं चाऽऽसीत् । उत्तमानां व्यञ्जनानामाहारविशेषाणां चाऽऽमोदेन मनः प्रसन्नं भवति स्म । एकत्राऽऽसन्दे उपविश्य तेन यूषमानेतुमादिष्टं परिषेवकस्य । तेन पृष्टं - 'किं भवान् बसयानादागतो वा ?' 'आम्' इत्यनेनोक्ते 'यूषं नाऽस्ति' इति स उक्तवान् । ‘एवं, तर्हि दध्योदनेन सह व्यञ्जनमानयतु' इति साश्चर्यमादिष्टवानयम् । 'यदि भवान् बसयानस्य यात्रिकस्तर्हि तदपि न लप्स्यते । केवलं पिष्टकमेव लप्स्यते । मया ह्येतत् सर्वमाहारजातं महता परिश्रमेण बहुना च कालेन प्रगुणीकृतमस्ति । यदि भवतस्तस्याऽऽस्वादनार्थं दशनिमेषादधिकः समयो न स्यात् तर्खहं भवते तत् कथं दद्याम् ??' (२) धन्यवादः गुरोराश्रमे शिष्याणां सङ्ख्या वृद्धिङ्गताऽऽसीत् । अतस्तेषां कृते नूतनावासगृहनिर्माणस्याऽऽवश्यकता जाता । तदा केनचित् श्रेष्ठिना समागत्य लक्षरूप्यकाणां दानं घोषितं, गुरोः स्वीकृतौ च जातायां तेन धनमप्यानीय गुरवे प्रदत्तम् । गुरुणोक्तं - 'अस्तु, अहं स्वीकरोम्येतत्' । एतच्छ्रुत्वा स श्रेष्ठी मनसि किञ्चिदिवाऽसन्तोषं प्राकटयत् यत् - 'इयद्धनेऽपि दत्ते गुरुणा मे धन्यवादोऽपि नोक्तः खलु !' । स उक्तवान् – 'प्रभो ! एतद्धि लक्षरूप्यकमितं धनमस्ति' । 'मयाऽवलोकितं भोः !' इति गुरुः कथितवान् । 'यद्यप्यहं धनिकस्तथाऽपि लक्षमितं धनं तु बहु भवति' - स उक्तवान् । 'तर्हि किं भवान् एतदर्थं मम सकाशाद्धन्यवादं श्रोतुमिच्छति वा ?' 'भवताऽवश्यं कथयितव्यः' । ६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110