Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 64
________________ आसन् इति च प्राचीनजानपदपद्यैर्बोध्यते । यथा सुंकातोण्णूरुकरीभण्टविषयकं पद्यगीतम् - अदु निन्तनु चोळरायनु सुत्त निन्तर करियभण्टरु । नुग्गिदनु रभसदलि गोग्गरिसि तुगलपट्टणके ।। इति । व्युत्थाय वीरः चोलराजः परितः कृष्णभटान् समागम्य वेगेन गुर्गुरध्वनि कुर्वन् तुघलकपत्तनं प्रविष्टवान् इति । धारानगरस्य प्रान्ते इन्दूरुतः गमने गंगवाल(ट)स्थानमद्याऽप्यस्ति । तुघलकस्य सोमनाथाक्रमणे तदीयं स्थानं गंगवाडकृष्णभटाः आक्रम्य स्थिताः चोळगंगदेवेन सह इत्यनेन ज्ञायते ।। __ एवं गूर्जरो भीमराजः, कर्णाट: तैलपो जयसिंहश्च धारानगरं संरक्षककृष्णभटविरहितमाक्रम्य नाशितवन्तौ । घजनीसाह्यमनयोरासीत् इति च ज्ञायते । इमं विषयं कर्णाटचौलुक्यविक्रमादित्यस्य षष्ठस्य पिता जयसिंह एव स्वीये शासनपत्रे उल्लिखति - धारानगरं तैलप्रक्षेपेण वह्निसात्कृत्य स्ववंशनामतैलप इति सार्थकीकृतम् – इति । काश्मीरे अनन्तराजमरणात् तुरुष्काक्रान्तराजास्थानतया बिल्हणः कविः स्वदेशं त्यक्त्वाऽऽकन्याकुमारि भारतं पर्यटन् गूर्जरे कर्णावतीनगरमागत्य भीमराजपुत्रस्य कर्णदेवस्य विवाहोत्सवे अन्वीय कर्णसुन्दरीतिनाटिकां विरचय्याऽभिनीतिभिः प्रदर्श्य सन्तोषितवान् । अत्र नान्दीपद्ये श्रवणबेळगोळबाहुबलिमूर्तिः स्तुता । ततो निर्गत्य जयसिंहपुत्रं विक्रमादित्यमाश्रित्य कर्णाटकल्याणनगरे राजगुरुरभूत् । काश्मीरादागमनकाले विदुषामाश्रयभूतं भोजराजं स्मारं स्मारं धारानगरवैभवं च दग्धं शून्यं पश्यन् रोदिति । धारानगरमेव बिल्हणं गोपुरपारावतपुञ्जध्वनिभिराह्वयति स्मेव । षण्मासेभ्यः पूर्वं त्वमागतश्चेत् भोजस्तुभ्यं मामेव ददाति स्म इति । __ "शिखरक्रोडपारावतानां नादव्याजादिति सकरुणं व्याजहारेव धारा ।" इति हि तस्य उद्गारो विक्रमाङ्कदेवचरिते । बिल्हणविषयं च कल्हणो राजतरङ्गिण्यामुल्लिखति - प्रसर्पतः करटिभिः कर्णाटकटकान्तरे । राज्ञोऽग्रे ददृशे तुङ्गं यस्यैवाऽऽतपवारणम् ॥ इति । विदुषामेवं सम्माननीयता तदाऽऽसीत्, यदा राजानोऽपि सद्विद्वांस एवाऽऽसन् विद्वद्रक्षकवीराश्च । हन्तेदं दौर्भाग्यं यदसूयाकुटिलैवैदेशिकसहायैर्भोजनगरं केवलं न नाशितं, किन्त्वखिलभारतीयसंस्कृतिरेव नाशिताइति मन्तुं युक्तम् । यत् तुरुष्कान् घजनीप्रभृतीन् विदेश्यानानीय स्वदेश्यानेव नाशयामासुस्ते इति । अद्यतनभारतराष्ट्रेऽपि इदं न न्यूनम् । ___ मया बाल्यादारभ्याऽभिमतो धाराप्रदेशः सकुटुम्बेनेतो दशवर्षेभ्यः पूर्वं दृष्टः । कोटदुर्गे यत्र भोजस्य क्षेपाणिकाविमानप्रयोगस्थानमासीत्, यच्च स समराङ्गणसूत्रधारग्रन्थे "लघुदारुमयं सुमहाविहगं परिकल्प्य च तत्र च पादरसम्" इत्युल्लिखति, येन स विन्ध्यारण्यं प्रति गतः, तत्र मुस्लिमानामेव गृहाणि दृश्यन्ते । यत् सरस्वतीभवनं तस्याऽदूराद् वर्तते, तत्र हिन्दूनां प्रवेशो दुष्करः । वयं केवलवस्रमात्रेण सर्वमन्यत् धनादिकं पत्रलेखन्यादिकं च बहिरेव स्थापयित्वाऽन्तः प्रविश्य दृष्टवन्तस्तत् भोजस्य सरस्वतीभवनम् । ५५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110