Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 66
________________ भोजराजस्य सरस्वती* | रेवाप्रसाद द्विवेदी १९६३ ख्रिष्टाब्दे प्रकाशिते, विश्वमात्रे संस्कृतस्य कृते लब्धप्रतिष्ठेन मद्रासविश्वविद्यालये संस्कृतविभागाध्यक्षतां बिभ्राणेन, प्रा. V.राघवन्महोदयेन Bhoja's Smgāra Prokas - इति नाम्नाऽऽत्मनः Ph.D. - शोधप्रबन्धे घोषितं - 1953-54 शिक्षासत्रे इंगलैण्डं गतेन मया ब्रिटिशम्युजियम् इति लन्दनस्थितायां भोजसरस्वत्याः प्रतिमा साक्षात् कृता । तस्या हस्ताश्चत्वार आसन्, किन्तु एक एव रक्षितः । तत्र सृणिरङ्कितः पादपीठप्रस्तरेऽभिलेखोऽप्येक आसीदिति । तेन महोदयेनाऽऽभिलेखः स नाऽनुशीलितः । ततः प्रभृति सा प्रतिमा भोजसरस्वतीत्वेनैव प्रसिद्धिमाप्ता । उज्जयिनीस्थैविद्वद्भिः पुनः प्रतिमाया अस्याः खण्डिता हस्ताः पूरिताः । विक्रमविश्वविद्यालयस्य संस्कृताध्ययनशालायां चित्रेऽस्मिन् ‘श्रीमद्भोजनरेन्द्रचन्द्रनगरीविद्याधरी-वाग्देवी'-त्यभिलेखांशोऽपि दत्तः । अनन्तरं वाकण्करप्रभृतीनां तपस्विनामितिहासविदामनुशंसया तत्रत्यया कालिदास-अकादम्याऽपि तस्या एव प्रतिमायास्तैलचित्रं बंहीयसाऽऽकारेण शारदाम्बात्वेन स्थापितम् । समारोहे तामेव पूजयितुं प्रावर्तन्त आयोजकाः । ___ अस्माभिरपि भोजदेवस्य शृङ्गारप्रकाशीये स्वस्थे समग्रे च मूले प्रकाशिते (२००७) तदेवोज्जयिनीस्थं द्वितयमपि चित्रमावरणपृष्ठे ग्रन्थारम्भे च दत्तम् । वर्षचतुष्टयं व्यतीतम् । अथ साम्प्रतं लन्दनस्थस्य British Museum - संस्थाया Website उद्घाटितम् । तत्र प्रतिमाया अस्या सरस्वतीत्वं विहाय यक्षीत्वं दर्शितं, समथितं च प्रतिमाया अस्या अधोभागे दत्तेनाऽभिलेखेन । विदुषां प्रवरैस्तत्राऽवधीयेत । तेन सिध्यति नेयं प्रतिमा भोजेन स्थापिता, अस्या स्थापयिता आसीत् कश्चिज्जैनो वररुचिः । नाऽसीच्चास्याः स्थापना भोजस्य भोजशालायां, धारायां तु क्वचिदियमासीत् - लोकसुखसाधनीभूत-यक्षीत्वेन यक्षीत्वमस्या विद्याधरीपदेन संसाधितम् । 'विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः पिशाचा गुह्यका सिद्धा भूता वै देवयोनयः' इत्यमरकोषवचनमत्र प्रमाणम् । अस्या विशेषणद्वयं भूयोऽपि प्रतिमाया अस्याः सरस्वतीत्वं परिहरति । तत्रैकम् 'अप्सरा' इति द्वितीयं च 'अखिलदेहिनां खलु सुखप्रस्थापनाय निर्मितेय'मिति उभाभ्यामपि सुराङ्गनात्वमात्रमस्याः सिद्ध्यति । रूढिर्योगाद् बलीयसीति नियमेनाऽत्र 'विद्याधरी'ति * सत्यानन्दसामयिके (सितम्बर - २०११) प्रकाशितोऽयं लेखः । ५७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110