Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 63
________________ साम्प्रतम् भोजसारस्वतम् अरैयर् श्रीरामशर्मा शालिवाहकनन्दनवर्षे नन्दनाख्यवनकल्पतरूद्धे । साष्टविंशतितमस्थिरशाखे नन्दयामि च मुनित्रयलक्ष्म ॥ श्रीमद्विजयशीलाढ्यचन्द्रसूरिमुनेः प्रियः । संस्कृतप्राकृतोपेतः पत्रकल्पतरुर्जयेत् ॥ कल्याणकीर्तिविजयस्य वचोऽभिरामं दृष्ट्वा विलेखितमहं तु यथार्थतोषी । श्रीभोजराजनगरीवररुच्यमूर्ति विद्याधरीमभिमतामनुचिन्तयामि ॥ स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ । सूरी तस्मिन् क्षणे तत्र, द्वावास्तां कविबान्धवौ ॥ इति काश्मीरकः कल्हणो राजतरङ्गिण्यां उद्घोषयति । काश्मीरे अनन्तराजो भारते भोजराजश्च निरन्तरं षष्टिवर्षकालं निराबाधं राष्ट्रं रक्षितवन्तौ । असूयया ब्राह्मणप्रेरितैः काश्मीरे क्षत्रियप्रेरितैर्भारतेऽनयो राज्ञो राज्यनाशः कारितः । सपरिवारोऽनन्तराजो भृगुपतनेन हिमालये स्वयं प्राणानत्यजत्, भोजस्तु महायोगी विमानतन्त्रविज्ञानी च विन्ध्यारण्ये वीणागानयोगेन रामायणचम्पू अन्तिमरात्रौ रचयन्नेव प्राणानूर्धमत्यजत् । एकरात्रे भोजेन चम्पूरामायणं यावत्कृतं तच्छेषमेकाहेन कृतवानहमिति द्राविडस्तञ्जावूरुराज: उल्लिखति इति प्रमाणम् । किञ्च काञ्चीविदुषा एकाम्रनाथेन भोजमरणादिदर्शिना यादवप्रकाशशिष्येण घजनीहत-सोमनाथपुनःप्रतिष्ठासमये चम्पूरामायणयुद्धकाण्डः पूरित: प्रकाशितश्चेति तदीयैरेव पद्यैरवगम्यते । काश्मीरे अनन्तदेवस्य दायाद इष्टदेव एव रविपण्डितकविसमाजस्य निर्वाहक आसीत् । स एव 'सच' इति कल्हणेन प्रस्तूयते । एवमितः सहस्रसंवत्सरेभ्यः पूर्वं षष्टिर्वर्षाणि भारतीयसाहित्यसंस्कृतेः सुवर्णयुग आसीद् इति ज्ञायते । अनन्तदेवस्य पुत्रः कलशस्तुर्किस्तानादागतानां तुरुष्काणां साह्येन पितरमनन्तदेवं स्वपुत्रं सर्वविद्वन्मूर्धन्यं श्रीहर्षञ्च निरकासयदिति राजतरङ्गिणीत एव ज्ञायते । प्रायो गूर्जर - काश्मीरयोः प्राचीनो द्वेषभावः स्पर्धा च भगवतः श्रीकृष्णस्य काल एव आसीत् । ततः श्रीकृष्णेन काश्मीरं प्रविश्य विधवां गर्भिणीमेव तत्र राज्ञीमभिषिच्य सुराज्यं कारयित्वा मैत्री सम्पादितेति प्राचीनेतिहासेऽपि तत एव ज्ञायते । भोजस्तु स्वाधीन - गूर्जर : दाक्षिणात्यसहायस्तुरुष्केभ्यो विदेशीयेभ्यो द्वारकास्थानं संरक्ष्य तुरुष्कान् बहुकालं निवारयति स्म । काञ्चीनगरपार्श्वस्थ - कूराख्यक्षेत्रपण्डितो दामोदरकविर्द्वारकाकृष्णविग्रहगोपने स्ववस्त्रैः साह्यं कृतवान् इति श्रूयते । कर्णाटमैसूरुयदुगिरिसमीपस्य गंगवाड (ल) वीराश्चोळभृत्या भोजस्याऽऽतरक्षका Jain Education International ५४ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110