Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 56
________________ ग्रन्थेऽस्मिन् 'मङ्गलगीते' - मङ्गलं मङ्गलम्, माङ्गल्यमेव भूयात्, शनैः शनैः, नवं नवं०; 'स्वागतगीते' - स्वागतं श्रीमताम्, सुस्वागतं सुस्वागतम्, स्वागतं व्याहरामः, व्याहरामो वयं०; 'वागीश्वरीगीते' - अनुजानीहि कवनकरणाय, महामाये ! को नु भणतु०, मातस्तव०, प्रणमामो वाग्देवीम्, किमतः परं त्वदुपायने, वागर्चनम्, हृदयं प्रकाशय०, सुतं पश्य०, वाणीवन्दनम्, त्वमसि जननि शरणम्, वितर वितर०, हंसविलासिनि ! धारय रे; 'सुरभारतीगीते' - संस्कृतं व्रजेत्, शं तनोतु संस्कृतम्, मयस्करं संस्कृतं भवेत्, जयतु संस्कृतम्, मदयति न हि कं०, रमयति नहि कमहो, संस्कृतमयं भवतु०, राष्ट्रभारती भवतु संस्कृतम्, न मृता म्रियते न०, वर्धतां देववाणी, देवभाषया विना, जयतु विबुधवाणी; 'राष्ट्रप्रशस्तिगीते' - वन्दे सदा स्वदेशम्, जयत्वियं वसुन्धरा, मामकी जन्मभूमिः, भारतं वन्दे, जयताद् भारतराष्ट्रम्, जलधर ! नय सन्देशम्, स्मृतिमञ्चति स्वदेशः, भगवन् ! रक्ष मदीयं देशम्, क्व नु भविताऽसि०, भारतीयोऽहम्, भारतीयशासनं विजयताम्, भवेदिह०, मामकं तदेव भारतम्, जीवनं वृथा, रक्ष रक्ष भारतम्, जीवितुं शक्यते नेदृशे भारते, म्रियते जिजीविषा, कीदृशी स्वतन्त्रता ?, को नु राष्ट्रबन्धुः ?, रक्तरञ्जितं०, जायते निर्झरी०, कोऽपि नो शृणोति०, यूयं यूयं वयं वयम्, क्व मार्गयानि ?, 'भारतीयसंस्कृतिगीते' - भारतीया संस्कृतिः पुनरेधताम्, भारतसंस्कृतिकथा विजयते; 'प्रकृतिविलासगीते' - रविभास्वरं प्रभातम्, अये ! प्रभाता रजनी, चन्द्रिका, वसन्तो भुवमवतरति०, वसन्तदोधकानि, सपादिका मधुमासस्य, कोकिलोच्चारति०, लघु लघु जलद:०, मेघो वितरति०, व्यालीव दशति०, रिम्झिम् वर्षति०, सखि ! रे समागच्छति०, गङ्गे तव नीरगाहनम्, अयि जननि ! शमय०, गङ्गा विलसति, भुवमागता भागीरथी, वत्सला गङ्गा, पुरुरूप सागर !, 'शिशुभावनागीते' - लयेरिका, अक्षरगानम्*, कियन्ननु सर्वम् ?, कण्ठस्थं कुरु, चौरो राजा, मधुमक्षिकापरिचयः, पिपीलिका०, पशुपक्षि०, मार्कटिक०, हृदयं विधेहि, लौहपथगन्त्री गच्छति, मातुल चन्द्र !, कुतो न्वागताः पयोदाः?, अरिमर्दना वयम्, के वयमित्याख्यास्यामः, सुनीत्यङ्कजातो ध्रुवोऽह०, विहगा वयं भवेम; 'प्रकीर्णे' च - गान्धिगीतम्, राष्ट्रमङ्गलं चेति सप्तनवतिः गीतानि प्रायशः चित्रोपेतानि संकलितानि । ग्रन्थात् प्राक् 'अभिनवगीते ! तव स्वागतम्' इति परमश्रद्धेयश्रीविजयशीलचन्द्रसूरिमहाभागस्याऽऽशीर्वचनं शोभते । अभिराजगीतायामस्यां संकलितानि सर्वाणि गीतानि भारतीयसंस्कृतिसारसर्वस्वभूतानि यानि महनीयानि तत्त्वानि सन्ति, तानि विशदतया गभीरतया मार्मिकतया च मृदुस्वरेषु गायन्ति । कवेर्भावुकता राष्ट्रभक्तिनिव्याजप्रीतिश्च सर्वत्र विराजते । वक्ष्यमाणे गीते सर्वे भारतीयाः पृथग्धर्मावलम्बिनोऽपि परस्परं प्रेम्णा निवसन्तीति सन्दिश्यते गीतकृता । तेन भारतस्य प्राचीना परम्पराऽपि न विस्मर्यते । 'जयत्वियं वसुन्धरा जयत्वियं वसुन्धरा रघोरियं यदोरियं कुरोरियं वसुन्धरा !! * मम मतौ - 'अक्षरज्ञानम्' इत्यादिगीतानामत्र संकलनमभिराजनामानुरूपं न वर्तते । ४७ Jain Education International ucation International For Private & Personal use on For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110