Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 52
________________ 'शश्वत्' । नन्विदवष्टम्भकं तस्य स्मृतावारुरोह । ततः परिणतं, "सर्वं तेजः सामरूप्यं ह शश्वत् ।" चतुर्थे चरणे विवक्षितमासीत् 'सर्वमिदं ब्रह्मणा सृष्टम् ।' - केवलं नवाक्षराणि । पादपूर्तये पुनस्तदेवा-वष्टम्भकं गजेन्द्रमोक्षाय हरिरिव समागच्छत् – सर्वं हीदं (अथवा हेदं) ब्रह्मणा हैव सृष्टम् ।। अत्र वेदोत्तरकालिका 'हि' अपि प्रादुरासीत् । अथवा 'ह'स्य पुनरावृत्तिः कृता स्यात् । ततस्त्रिष्टुप् छन्दः समुत्पन्नमेवम् - ऋग्भ्यो जातां सर्वशो मूर्तिमाहुः, सर्वा गतिर्याजुषी हैव शश्वत् । सर्वं तेजः सामरूप्यं ह शश्वत्, सर्वं हीदं (अथवा सर्वं हेदं) ब्रह्मणा हैव सृष्टम् ॥ भव्येशेन सूचितं यद् द्वितीये चरणे "सर्वा गतिः" इत्यस्य स्थाने सर्वा गीतिः इत्यादि किञ्चिद् दीर्घवर्णपूर्वं स्थाप्येत तर्हि शालिनीच्छन्द इदं सम्पद्यते किन्तु सर्वा गतिरित्यत्र च्छन्दोभङ्गः । चातकेनोक्तम् - स तु वर्तत एव । 'शश्वत्', 'ह' 'एव' पदानामानेडनं प्रतिचरणं, किं सूचयति ? छन्दोऽनिर्वाहवशात्कथं निरर्थकपदावृत्तिवैवश्यं समापतितं वराकस्य तैत्तिरीयब्राह्मणीयस्य ऋषेः । भव्येशः समपूरयत् – इदं तु भवादृशाः कवयोऽनुदिनं कुर्वन्त्येव - एकं पादं पूरयितुमेकेन कविना कथितमभूदेव “च वै तु हि, च वै तु हि ।" किं तेनाऽपराद्धम् ? चातकस्त्वरितमेव प्रत्युत्तरमास्फालयत् - "तदिदमेवाऽपराद्धं यच्छन्दोगुम्फनाभ्यासाभावेऽपि च्छन्दःस्येव विलखनस्योपक्रमो हठादुत्थापितः । गद्ये किमिति नाऽलेखि ? किं चिकित्सकेन केनचित्समादिष्टमासीत् ? यत्ते पद्यमेव पथ्यं, गद्यमपथ्यमिति ?" उपमन्युः श्रौतायनो मध्य एव स्वकीयां भणितिभङ्गीमुदवमत् - "अरे न जानासि ? समुचितसुमधुर-पदन्यासस्तु केवलं कवीनामेव दुविलसितम् । शास्त्रकारास्तु हठाकृष्टपदन्यासैश्छन्दोभङ्गैश्च शोभन्ते । यदि तेऽपि यति-गति-गणादिबन्धनेषु बद्धाः स्युस्तहि को वा स्यात्तेषां च कवीनां च विशेषः ? किं स्याद् भेदकम् ? स्मराम्येवंविधमेवैकं पद्यम् - एकेन नूतनेन शास्त्रकारेण हिन्दोः परिभाषां सूचयता सूचितमेवम् – "आसिन्धोः सिन्धुपर्यन्ता यस्य भारतभूमिका । मातृभूः पितृभूश्चैव स वै हिन्दुरिति स्मृतः ।" सिन्धुनदीमारभ्य हिन्दमहासागर(सिन्धु)पर्यन्ता भारतभूमिर्येन स्वकीया मातृभूः पितृभूश्चैव मन्यते स हिन्दुः । तदिदं हिन्दोर्लक्षणं सार्वकालिकं सार्वदैशिकं च । यदा मया प्रथमतः परिभाषेयं पठिता, भूमिकापदं विलोक्य नाऽहं बोद्धुमपारयं किमयमभिप्रैति ? यतो हि भूमिकापदं नेपथ्य-वेष-भूषादिकृते नाट्यनिर्वहणकृते वा प्रयुज्यते, "अत्र नायिकाया भूमिका तया सुन्दर्या नियूंढा" इत्यादि ।" मया कथितं – तलस्य, मंजिलस्य, Storey इत्यस्य कृतेऽपि प्रयुज्यते भूमिकाशब्दः । "सूत्रधारकृता-रम्भैर्नाटकैर्बहुभूमिकैः ।। सपताकैर्यशो लेभे वसो देभाकुलैरिवेति" किं न श्रुतम् ? भव्येशोऽसूचयद् यदिदानीं तु प्रस्तावनायाम्, आमुखे उपोद्घाते वा प्रयुज्यते भूमिकाशब्दः । "पुस्तकस्याऽस्य भूमिका मया लिखिते''त्यादि । उपमन्युना पृष्टं यत्किमिदं पद्यं सूचयति यद् यो जनो भारतभूमि मातृभुवं पितृभुवं वा कथयन् नाट्यभूमिकारूपेणाऽऽचरति भक्तिं स हिन्दुः - ४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110