Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
पत्रम्
मुनिधर्मकीर्तिविजयः
___ नमो नमः श्रीगुरुनेमिसूरये ॥
आत्मीयबन्धो ! चेतन !
धर्मलाभोऽस्तु । अत्र कुशलं वर्तते । गुरुभगवद्भिः साकं वयं सर्वेऽपि निरामयाः स्मः । चतुर्मास्याराधनार्थं वयं सौराष्ट्रजनपदे भावनगरमध्ये विराजामहे ।
भो ! अद्य सुखमाश्रित्य किञ्चिद् लिखामि ।
अद्य सर्वेऽपि जना दुःखिनः सन्ति । कयाचिदपि कठिनपरिस्थित्या वेष्टिताः सन्ति जनाः । प्रतिपदमापत्तय आगच्छन्ति । कदाचित् स्वास्थ्यं प्रतिकूलं स्यात्, व्यापारे कोऽपि धूर्तो वञ्चनां कुर्यात्, पत्नी गृहं विहायाऽन्यत्र गच्छेत्, पुत्रादयो द्रुह्येयुः । समाजेऽपयशः प्रसरेत्, मनसोऽनवधानात् पदभङ्गश्च स्यात् - एवं विविधव्याधिभिर्जना दुःखमनुभवन्ति स्म ।
३५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110