Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 48
________________ ललितकथा छन्दश्छटाचमत्कारा: देवर्षिकलानाथशास्त्री वसन्तस्य ऋतुराजता रससिद्धैः संस्कृतकविकोकिलैरेवेदम्प्रथमतया घोषिता स्यादिति न सम्भवति । स्वयं जगद्गुरुणा कृष्णेन "ऋतूनां कुसुमाकर" इति विभूतियोगमुगिरता तस्य सर्वोत्कृष्टता घोषितचरा। अस्माभिरपि ऋतोरस्य स्फुटः प्रभावोऽनुभूत इति गतवर्षीयां घटनां भवद्भ्यः सूचयामि । फाल्गुनमासो यथैव व्यतियाति वसन्तागमसूचका मलयवाता मधुकरयूनां, पुंस्कोकिलानां, रसिकयुवकानां च हृदयानि केनचनाऽपूर्वेणोल्लासेन पूरयन्ति । फाल्गुनपूर्णिमाया दिवसोऽयमभूत् । होलिकोत्सव इत्युद्घोष्यतेऽयम्, उन्मुक्तोल्लास-विलास-परिहाससुभगेऽस्मिन्नुत्सवे निष्कुण्ठं निर्बाधं च स्नेहसुरभयो विनोदालापाः सुहृत्सु प्रवर्तन्ते इति जानीमः स्म वयम् । सायंकाले त्रयः सुहृदो वयमस्माकं वरिष्ठस्य मित्रस्य भाषाविदुषो भव्येशभट्टस्य भवनमुपसृप्य कतिपयान् क्षणान् कुण्ठामुक्तया सुहृच्चर्चया यापयिष्याम इति विचिन्तयन्तः प्राप्ता एव राजमार्गोपवनसमीपस्थं तद्गृहम् । सौभाग्यवशाद् भव्येश उषीरसौरभ्यसुभगं शीतलपेयं (खस का शर्बत) पिबन्नासीत् । सर्वैरस्माभिः स साटोपं धिक्कृतः, "धिक् त्वां यदेकाकी सुमधुरमिदं पेयं पिबसि, प्रतिवेशस्थानस्मान् सर्वान् सुहदो विस्मृत्य । धिक् तव वेदज्ञानम् । 'केवलाधो भवति केवलादी' इति प्रतिदिनं रटसि । 'मोघमन्नं विन्दते अत्रचेता' इति जानासे किन्तु एकाकी शीतपेयं पिबसि ।" भव्येशोऽपि नाऽभूदनवधानः । तेनाऽपि वागारभटी प्रदर्शिता- "अरे मुग्धा ! धिग् युष्माकं घ्राणशक्तिम् । सत्यमुक्तमृषिणा – 'उत त्वः पश्यन्न ददर्श वाचम् । उत त्वः शृण्वन्न शृणोत्येनाम्' । किं न पश्यथ संमुखे एव त्रिपदिकायां मसृणवस्त्रावृतं चषककुलकम् ? क्षणमुद्घाटयाऽऽवरणं पश्यथ कति पानपात्राणि सुरभिशीतपेयपूर्णानि स्थापितानि मया पूर्वमेव युष्मादृशानां क्षेत्रपालानां बलये । पिबत पेयमिदमातृप्ति । यदि तदाऽपि न पूर्यते युष्माकमुदरदरी, अपरं पूर्णपात्रमन्तः स्थापितमस्ति पेयस्य, एका च विस्तृता स्थाली मिष्टपक्वान्नपूरिता युष्माकमुदराग्नावाहुतिप्रदानाय स्थिता तस्मिन् प्रकोष्ठे । अतः "चरैवेति, चरैवेति" । सर्वे वयं सुहृदो मिष्टान्नं, सलवणान्नं च यथेच्छहमभ्यवहरन्तः पेयचषकाणामानन्दमनुभवितुं प्रवृत्ताः । जानन्त्येव भवन्तो यदेवंविधेष्ववसरेषु पेयचषकापेक्षयाऽपि विनोदालापचषकाणामास्वादः प्रेयान् प्रतीयते । तदेव समजनि । अस्माकं सुहृत् कविवर्यश्चातको वसन्तं संबोधयन् सद्योगुम्फितां स्वकवितामश्रावयत् । "हंहो वसन्त ! बन्धो वसन्त ! पुंस्कोकिल-कल-रवमधुररागमूर्च्छनामद्यमोहितदिगन्त ! ।" उन्मुक्तं गायति चातके साक्षेपं मया वारितोऽसौ "अरे किं सञ्जातं युगस्याऽस्य कविषु ? ते गायनाः सन्ति कवयो वा ? वसन्तमवलम्ब्य काव्यमिष्यते रचयितुं तर्हि वसन्ततिलकया शार्दूलविक्रीडितेन शिखरिण्या वा किमपराद्धम् ? किमिति न लिखथ तेषु च्छन्दःसु ३९ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110