Book Title: Nandanvan Kalpataru 2012 11 SrNo 29
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 24
________________ सण्डे-मण्डेऽध्वनि विहरन्तः । अप्रिल-मे-जूना जानन्तः ॥ कुलाचारनिजसंस्कृतिशून्याः । प्रसंस्कारार्जनैश्च धन्याः ॥ नीलवर्णजम्बुका नवीनाः । युवका हन्त युवत्यो दीनाः ॥ नाम्नैवाऽद्य भारते जाताः । भारतीयसंस्कृतेर्विघाताः ॥ रामायणनामाऽश्रुतवन्तः । सीरियलेन च परिचिन्वन्तः ॥ नो विदति भारताभिधानम् । कौरव-पाण्डवयुद्धविधानम् ॥ को नु हरिश्चन्द्रो मान्धाता । को नु शिवश्शरणागतत्राता ॥ के नल-राम-युधिष्ठिरसंज्ञाः । विक्रम-हर्ष-भोजसुनयज्ञाः ॥ को नु शिशुस्सम्प्रति निजदेशे । रतिमानैतिोऽथ परेशे ॥ कुक्कुटाण्डभक्षणैकवीराः । मदिराचषकविपन्लशरीराः ॥ अश्वन्तः पिशितं नु पिशाचाः । भासन्ते निर्मुखनाराचाः ॥ . गतिमतिदीनाश्छलप्रवीणाः कथा नु तेषां श्रुतिम्भरी ! बबं बबंबं बं लहरी ! शिवगाथेयं शिवकरी ॥३॥ रोदिति विलपति संस्कृतभाषा । साक्षात्कारे भवति तमाशा ॥ पृच्छति बुधो लतापदरूपम् । किमिव तात, भाषतेऽपरुपम् ॥ यथा पिता पितरौ पितरश्च । तथा लता लतरौ लतरश्च ॥ यथा च रामः रामौ रामाः । तथैव नामः नामौ नामाः ॥ यथा च दधि दधिनी च दधीनि । तथैव मति मतिनी च मतीनि ॥ श्रुत्वा जातवेपथुर्दीनः । ताम्यति विद्वान् निर्जलमीनः ॥ साधु साधु साध्विति ब्रुवाण: । नवरसविरसो वक्ति ग्लानः ॥ भवता तात ! रक्षिता वाणी । देवानामधुना कल्याणी ॥ विलक्षणं व्याकरणज्ञानम् । विलक्षणं प्रस्तुतप्रमाणम् ॥ दाक्षीसुतः पाणिनिर्धन्यः । भवता कात्यायनोऽप्यनन्य: ॥ त्वमसि पतञ्जलिभाष्याधारः । शेषस्याऽभिनवोऽप्यवतार: ॥ पुनरसंस्कृता संस्कृतभाषा । त्वया तात ! जनिता परिभाषा ॥ चिरञ्जीव भव जगज्जयी त्वम् । ननु वर्धस्व तात ! सततं त्वम् ॥ क्वचिद् भविष्यसि यदा नियुक्तः । शतसहसशिष्यैः संयुक्तः ॥ प्रतिभायास्ते तदेन्द्रजालम् । द्रक्ष्यन्त्येव जनाश्च ‘कमालम् ॥ मया जीवने त्वादृशबुद्धिः । सम्प्रेक्षितो न वाऽक्षतसिद्धिः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110