Book Title: Nandanvan Kalpataru 2006 00 SrNo 17 Author(s): Kirtitrai Publisher: Jain Granth Prakashan Samiti View full book textPage 7
________________ वाचकानां प्रतिभावः प्रा. अलकेश दवे संस्कृत/ प्राकृत विभाग, गुजरात आर्ट्स एण्ड सायन्स कोलेज, __ एलिसब्रीज, अहमदाबाद 'नन्दनवनकल्पतरोः' षोडशोऽङ्कोऽधिगतः । भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा। सरलसंस्कृतवाण्याः प्रचाराय इयं पत्रिका उपकारिकी इति मया चिन्तितम् । पत्रिका उत्तमा वर्तते । वासुदेव पाठकस्य काव्यत्रय्याः पठनात् महान् आनन्दः अनुभूतः । मुनिरत्नकीतिविजयस्य 'आस्वादः'-विभागे प्रकाशितः 'चिन्तनधारा' चिन्तनयोग्या अस्ति । विषयः गम्भीरः रुचिरः च अस्ति । सर्वे लेखाः मह्यम् अतीव अरोचन्त । 'जनप्रियत्वं सुखाय वा दुःखाय वा ?' इत्येषा कथा रुचिपूर्णा उपदेशप्रदा च अस्ति । अयि नन्दनवनकल्पतरुसम्पादिके कीतित्रयि ! त्वामहं सादरं सविनयं नमामि । पत्रिकायाः षोडशाङ्कः प्राप्तः, तदर्थं बहुधन्यवादः । अत्राऽऽचार्यरामकिशोरमिश्रकृता सुकन्या नाम कथा पठिता, सा च्यवनप्राशनिर्मात्री विज्ञाता । श्रीमिश्रसङ्कलिता 'सउन्दलाचरियं' नाम प्राकृतकथा विशिष्टा । श्रीशारदावन्दनं, भक्तामरसमस्यास्तवः, श्रीशत्रुञ्जयतीर्थचैतन्यवन्दनस्तवनस्तुतयश्च प्रभावशालिन्यो मनोहराश्च रचनाः सन्ति । भवदीयं प्रास्ताविकं स्वधर्माचरणाय जनान् प्रेरयतीति शम् ।। भवदीयः - राजेशकुमार मिश्रः अध्यापकः, राजकीय इण्टर कोलिज, नागराजाधारः (बमुण्ड) पत्रालय-कखवाड़ी वाया - चम्बा (टिहरीगढ़वाल:) उत्तराञ्चलम्-२४९१४५ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 114