Book Title: Nandanvan Kalpataru 2004 00 SrNo 13
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 9
________________ - वाचकानां प्रतिभावः नन्दनवनकल्पतरोादशी शाखा प्राप्ता-पठिता च ।। __ पू. मुनिधुरन्धरविजयाणां "जिनस्तवनम्" -तथा प्राकृते आ.पद्मसूरेः "सिरिसिद्धचक्कथोत्तं" अतीव प्राञ्जले । मुनिधर्मकीर्तिविजयस्य ‘पत्रम्' अतीव प्राकृतिकवर्णनपूर्णं वर्तते । यथा अस्माभिरपि अनुभूतं तथैव पत्रे पठितम् । __ "वर्षावाग्वधूटीविलास:" तथा "आभाणकजगन्नाथः" अतीवातीव सुन्दरे । अन्यत् च भवतां सरलता प्रशस्या । यत् सन्धिं कृत्वा मुद्रितं कर्तव्यम् इति सूचना यथा प्राप्ता तथैव शीघ्रं स्वीकृता । । ___ मुनिविश्रुतयशविजयः नमो नमः श्रीगुरुनेमिसूरये परमोपास्याचार्यप्रवरश्रीविजयशीलचन्द्रसूरीश्वरस्य चरणयोः कोटिशो वन्दनां कृत्वा प्रथमप्रयासेन इदं लिख्यते मया । कीर्तित्रितयमुनिपुङ्गवानां नन्दनवनकल्पतरुसामयिकस्य संपादनकार्ये लेखने च यत्नोऽतीवाऽनुमोदनीयः प्रवर्तते । नन्दनवनकल्पतरोादशी शाखा प्राप्ता । उत्तरोत्तरं लेखसङ्ग्रहोऽतीवाऽऽनन्ददायको भवति ।। प.पू.विजयपद्मसूरीणां 'सिरिसिद्धचक्कथोत्तं' तथा च मुनिधुरन्धरविजयेनाऽनूदितानि प्राचीनस्तवनानि मह्यं खलु भृशमरोचन्त । अरविन्दभाई कापडिया बी/१२, पञ्चतीर्थ एपार्टमेन्ट श्रीहेमचन्द्राचार्य चौक, पांच रस्ता, पालडी अमदावाद-३८०००७ 4 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 138