Book Title: Nandanvan Kalpataru 2004 00 SrNo 11
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 9
________________ - वाचकानां प्रतिभावः 208038- 000+ श्री: अयि संस्कृतसंस्कृत्योरनन्यनायकमुनीश्वराः श्रीसूरीश्वराः कीर्तितकीर्तयश्च ! श्रमणसंस्कृतिसौरभवासिता विशदवैदिक संस्कृतिसङ्गता । भरतभूर्विभवोर्जितसाहिती फलति नन्दनकल्पतरौ श्रिया ॥१॥ सुरगवी कलिपङ्कमुपेयुषी क्वचिदसौ यदि मज्जनशङ्किता । भरतशूरसुतास्तपसा धिया परमया परिपान्ति सनातनीम् ॥२॥ विजयशीलशशीद्धमुनित्रयीं कृतमतिं समवेक्ष्य सरस्वती । स्मितसितांशुविभासितवल्लभं किमिह कल्पतरूं कृतवत्यसौ ॥३॥ दशमसंख्यकशाखया पुनर्नवलया तरुरुत्सवभावितः । स पुरुषार्थचतुष्टयशेवधिर्जयति सूरिभिरत्तयशा निधिः ॥४॥ अध्यात्मसारानुगमः प्रसन्न आचार्यसूरिशुभवासनोत्थः । तत्पादपूर्तिश्च तथाष्टकञ्च पुनन्ति चात्मानमनूनशान्त्या ॥५॥ प्रीत्युपालम्भयोर्दुग्धगरलाभ्यां हितं हरत् । गुरूपास्तिवचस्तस्य श्रीधुरन्धरसन्मुनेः ોદ્દો जयशिवगौरीसपर्या त्रिवेणीकवेरभिदधाति हृदयम् । शिवगौरीगङ्गावनौ कथं भक्तचेतो नाभिराजताम् ब्रह्मानन्देन्द्रदृब्धं रङ्गेऽपि नागानन्दनवनीतम् । सरसभाषया सचित्रं मनोविनोदायाऽलं सुधियाम् ॥८॥ आप्राकृतान्तं समे चाऽन्ये नवनवदिशो दिशन्तोऽपि । संस्कृतलेखन्या खलु साम्प्रतमनवद्याः प्रबन्धाः ॥९॥ अनवरतमभिनवं रसं प्रतिशाखमभिख्यापयन् श्यामलः । कल्पतरुः सत्तरुण: कामं रसिकमावर्जयन् भाति ॥१०॥ मुनिवर्येषु प्रणामाभिनन्दनाबद्धाञ्जलिः सुरेन्द्रमोहनमिश्रः कुरुक्षेत्रविश्वविद्यालये संस्कृतपालिप्राकृतविभागाध्यापकः । viii For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 130