Book Title: Mulshuddhiprakarana
Author(s): Pradyumnasuri
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
११८
सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् 'आगमः' सिद्धान्तः । 'भूयिष्ठानां' प्रभूतानाम् । 'सुदृष्टानां' सातिशयानाम् । एष 'कोशः' भाण्डागारम् । 'सुखावहः' सुखकृत् । __अन्यदर्शनसिद्धान्तेष्वपि महाविद्यादयो दृश्यन्त इति चेत् ! तन्न, तेषामित एवोद्धृतत्वात् । उक्तं च सिद्धसेनदिवाकरण
सुनिश्चितं नः परतत्रसूक्तिषु, स्फुरन्ति याः काश्चन सूक्तसम्पदः।
तथैव ताः पूर्वमहार्णवोद्धृता, जगत्प्रमाणं जिनवाक्यविग्रुषः ॥ १९२ ॥ इति श्लोकार्थः ॥ ५० ॥ चिन्तामणिरप्यसाविति श्लोकार्धमाह
चिंताईयं फलं देइ एसो चिंतामणी परो । ५१ पू० । 'चिन्तातीतं' चिन्तातिक्रान्तम् । 'फलं' कार्यम् । 'देइ' त्ति ददाति । एष 'चिन्तामणिः' चिन्तारत्नम् । 'व(प)र:' प्रधानः चिन्तातीतफलदायकत्वादेव ॥ ५१ पू० ॥ कियद्वा शृङ्गग्राहं भणिष्यामि ? इति समस्तादेशसवहार्थं श्लोकोत्तरार्धमाह
मण्णे तं नत्थि जं नत्थि इत्थ तित्थंकरागमे ॥ ५१ ॥ 'मैन्ये' इत्याऽऽप्तवादसंसूचकः । अवधारणस्य गम्यमानत्वात् तद् नास्त्येव यद् अत्र=जिनागमे नाऽस्तीति श्लोकार्थः ॥५१॥ आगमादरवता यत् कृतं भवति तच्छोकेनाऽऽह
आगमं आयरंतेण अत्तणो हियकंखिणा ।
तित्थणाहो गुरू धम्मो ते सवे बहुमण्णिया ॥ ५२ ॥ आगमम् “आद्रियमाणेन' प्रमाणीकुर्वता । कथम्भूतेन(? केन ) ? जन्तुनेति गम्यते । 'आत्मनः' खस्य । 'हितकाङ्क्षिणा' श्रेयोर्थिना । 'तीर्थनाथः' अर्हन् । 'गुरुः' यथावस्थितशास्त्रार्थवेदी । 'धर्मः' दुर्गतिप्रपतदङ्गिगणधारकः । 'ते' पूर्वोक्ताः । 'सर्वे' समस्ताः । 'बहुमताः' गौरव्याः । कृता भवन्तीति क्रियाध्याहारः । इति श्लोकार्थः ॥ ५२ ॥ तद्बहुमानवता यत् कृतं भवति तच्छ्रोकेनाऽऽह
बहुमाणेण एयम्मि नत्थि तं जं न मन्नियं ।
तेलोक्के मन्नणेजाणं वुत्तो ठाणं जओ इमो ॥ ५३ ॥ 'बहुमानेन' आन्तरप्रीतिविशेषेण । 'एयम्मि' एतस्मिन्नागमे । 'नास्ति' न विद्यते । तद् यद् न 'मतम् ' आइतम् । 'त्रैलोक्ये' जगति । माननीयानां 'व्युक्तः' प्रतिपादितः । 'स्थानम्'-आश्रयः । 'जओ'त्ति यतः यस्मात् कारणात् । 'इमो'त्ति अयं सिद्धान्तः । इति श्लोकार्थः ॥ ५३ ॥ किश्चाऽऽगमस्यैव प्रमाणतामुपदर्शयन् श्लोकमाह
न यागमं पमोत्तूणमन्नं मण्णंति सूरिणो ।
पमाणं धम्ममग्गम्मि दिटुंतं बेंति केवली ॥ ५४ ॥ ____10D त्थि एत्थं ति°, E'थि मेत्थं ति। 2A B 'मण्णे'ई। 30D तदाह श्लोकेन। 4 E°णमत्त । 50Dता हि यत्। 60 D E णमेय। 7A B त्ति यस्मा। 8 B°र्थः ॥ ५३॥ जिनागमस्यैव । 90D 'णतां प्रदर्श।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248