Book Title: Mulshuddhiprakarana
Author(s): Pradyumnasuri
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 139
________________ ११६ सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् साम्प्रतमागमस्य नाथ-बन्धुत्वे एकश्लोकेनाऽऽह एसो णाहो अणाहाणं सव्वभूयाण भावओ । भावबंधू इमो चेव सव्वसोक्खाण कारणं ॥ ४४ ॥ एष 'नाथः' नायकः । 'अनाथानाम् ' अस्वामिकानाम् । केषाम् ? 'सर्वभूतानां' निःशेषजन्तूनाम् । 'भावतः' परमार्थतः । यथा हि खामी समाश्रितान् रक्षति एवमसावप्यहिंसाप्रतिपादनपरवाक्योपदेशतः सर्वजन्तून् रक्षति । तथा 'भावबन्धुः' परमार्थभ्राता । 'इमो चे'त्ति एष एव । 'सर्वसौख्यानां' समस्तनिवतीनाम् । 'कारणं' हेतुः । तथा हि जह बंधू वरसिक्खं वियरंतो सोक्खकारणं होइ । तह आगमो वि सिवसुहहेऊ नाणाइदाणाओ॥१८५ ॥ इति श्लोकार्थः ॥ ४४ ॥ अधुनाऽऽगमस्यैव दीपरूपतां श्लोकेन प्रतिपादयति अंधयारे दुरुत्तारे घोरे संसारचारए । एसो चेव महादीवो लोया-ऽलोयावलोयणो ॥ ४५ ॥ 'अन्धकारे' तमोबहुले । 'दुरुत्तारे' कष्टनिर्गमे । 'घोरे' रौदे । 'संसारचारके' भवगुप्तिगृहे । एष चैव महादीपः, 'लोका-ऽलोकावलोकनः' निःशेषपदार्थप्रदर्शकः । इति श्लोकार्थः ॥ ४५ ॥ आगमश्चक्षुर्भूत इति श्लोकेनाऽऽह जेणं सग्गा-ऽपवग्गाणं मग्गं दाएइ देहिणं । चक्खुभूओ इमो तेणं सव्वसि भवपाणिणं ॥ ४६ ॥ 'जेणं ति येन कारणेन । 'खर्गा-ऽपवर्गाणां' देवलोक-मोक्षाणां 'मार्ग' पन्थानं ज्ञान-दर्शन-चारित्ररूपम् । 'दाएई'त्ति दर्शयति । 'देहिनां' प्राणिनाम् । 'चक्षुर्भूतः' दृष्टिकल्पः । 'इमो' अयम् । तेणं'ति तेन कारणेन । 'सर्वेषां' समस्तानाम् । 'भव्यप्राणिनां' मुक्तिगमनयोग्यजन्तूनाम् , यस्माद् अभव्यानामयमपि न सन्मार्गदर्शको जायतेऽतो भव्यानामित्युक्तम् । इति श्लोकार्थः ॥ ४६ ॥ सम्प्रति जननी-जनकरूपतामस्य श्लोकेनाऽऽह आगमो चेव जीवाणं जणणी णेहणिब्भरा । जोग-खेमंकरो निच्चं आगमो जणगो तहा ॥४७॥ आगमश्चैवं जीवानां 'जननी' माता 'स्नेहनिर्भरा' अञ्जसाऽऽपूर्णा । तथा हि पालण-पोसण-परिवद्धणाइ पुत्ताण कुणइ जह माया। तह एसो जीवाणं करेइ जिणभणियसिद्धंतो ।। १८६ ॥ 'जोग-खेमंकरो'त्ति तत्राऽभिनवस्योपार्जनं योगः, पूर्वोपार्जितस्य च रक्षणं क्षेमम् , ते करोतीति योग-क्षेमकरः । 'नित्यं सदा । आगमो 'जनकः' पिता । तथा तेनैव प्रकारेण । तथा हि 10 D°तानाम् । भावतः। 2A B°व' एष। 38 लोयऽव। 4 C D °दार्थदर्श। 5A B°इ' दर्श° । 60 E जोग-क्खेम। 7 C D E Jओ त। 8A B°व जननी माता जीवानां। 9A B तं की। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248