Book Title: Mulshuddhiprakarana
Author(s): Pradyumnasuri
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 169
________________ सटीके मूलशुद्धिप्रकरणे चतुर्थ स्थानकम् रजस्तमोविनिर्मुक्तं स्तिमितोदेधिसन्निभम् । निष्कल्लोलं भवेच्चित्तं तदा ते परमं सुखम् ॥ २६४ ॥ मैत्री-कारुण्य-माध्यस्थ्य-प्रमोदोदाममानसम् । यदा मोक्षकानं स्यात् तदा ते परमं सुखम् ॥ २६५ ॥ पुनर्मनोग्रहणं दुष्टा-ऽदुष्टद्विभेदमनःसंसूचनार्थमित्युत्तरार्धार्थः ॥ ७८उ० ॥ साम्प्रतं शेषकृत्यप्रतिपादनार्थं श्लोकषटुमाह जहा जहा महाणम्मि आढिया होंति साहुणो । सव्वं सव्वपयत्तेण कुज्जा कायव्वयं तहा ॥ ७९ ॥ यथा यथा 'महाणम्मि' महाजने ‘आढिय'त्ति आदृताः 'हुति' भवन्ति 'साधवः' यतयः 'सर्व' समस्तं सर्वप्रयत्नेन' निःशेषप्रयत्नेन कुर्यात् 'कर्तव्यं' कृत्यम् ' तथा ' तेनैव प्रकारेण ॥ गुणाणं बहुमाणेणं वणवायं वए फुडं । जहा गुणाणुरागेण लोगो मग्गं पवजई ॥ ८ ॥ 'गुणानां' क्षान्त्यादिकानाम् , 'बहुमानेन' आन्तरप्रीत्या, 'वर्णवाद' श्लाघाम् , । यथा साधूनां दर्शनं श्रेष्ठं, तीर्थभूता हि साधवः । तीर्थ पुनाति कालेन, सद्यः साधुसमागमः ॥ २६६ ॥ तथा साहूण वंदणेणं णासइ पावं असंकिया भावा । फासुयदाणे णिज्जर उवग्गहो णाणमाईण ॥ २६७ ॥ वदेत् 'स्फुटं' प्रकटम् , यथा गुणानुरागेण 'लोकः' जनो ‘मार्ग' ज्ञानादिकं प्रतिपद्यते । यतः ज चिय सुहपडिवत्ती सव्वण्णुमयम्मि होइ परिसुद्धा । स चिय जायइ बीयं बोहीए तेणणाएण ॥२६८॥ अहापवत्तसुद्धाणं संताणं फासुयाण य । एसणिज्जाण कप्पाणं तिहा वि विहिणा सयं ॥ ८१ ॥ 'यथाप्रवृत्तशुद्धानां' यथाप्रवृत्तानि आत्मग्रहाद्यर्थं व्यापारितानि, तानि च तानि शुद्धानि च विशुद्धजीविकोत्पादितानि, तेषामशनादिद्रव्याणां यतीनां दानमिति सम्बन्धः । 'सतां' गृहे विद्यमानानां तत्तद्यतकादिगृहीतानां तत्र प्राघूर्णकसमायातसाधुनिमित्तदरिद्रभगिनीश्वरश्रेष्ठिगृहगृहीततैलपलिकाप्रतिदानशक्तिविकलवर्धिततैलपलिकाप्राप्तदासत्वनारीवद् दोषसम्भवात् । ‘फासुयाण य'त्ति प्रासुकानां गतजीवानाम् , 'एषणीयानां' द्विचत्वारिंशद्दोषविशुद्धानाम् , 'कल्पनीयानां' साधुयोग्यानाम् , 'त्रिधाऽपि' इति मनोवाक्कायशुद्धया 'विधिना' विधानेन 'सयंति स्वयम् आत्महस्तेन, 'स्वहस्तेन हि यद्दत्तं तदेव धनिनां धनम्' इति वचनात् ॥ 10 D °दधिसम्भवम् । 2 C D °मभावनम् । 30D °नं तत् , तदा। 4 C D °नःसूच। 5A B काइव। 60 D सादरेण निः। 7 A B °णाण बहुमाणेण व°। 8 A B पडिसुद्धा ।। Jain Education International For Private & Personal Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248