Book Title: Mulshuddhiprakarana
Author(s): Pradyumnasuri
Publisher: Prakrit Text Society Ahmedabad
View full book text
________________
२२४
सटीके मूलशुद्धिपकरणे चतुर्थस्थानकसमाप्तिः तिष्ठतां' निवसताम् , 'यतः' यस्मात् , वस्त्रा-ऽऽहार-तपआदीनि आदिशब्दात् पात्र-दण्डकादिग्रहः, साधूनामुत्पद्यन्त इति गम्यम् । 'सम्मति सम्यक्त्वम्, केचित् ‘पवजंति' प्रतिपद्यन्ते 'जिनदीक्षामपि' सर्व-देशविरतिरूपां केचनाऽपि प्रतिपद्यन्ते इति श्लोकार्थः ॥९६॥ तस्मात्
सिज्जादाणप्पभावेणं देवाणं माणुसाण य ।
पहाणं संपया फुल्लं फलं निव्वाणमुत्तमं ॥९॥ विभक्तिव्यत्ययात् शय्यादानप्रभावतो देवानां मानुषाणां च प्रधान सम्पत् पुष्पम् , फलं तु निर्वाणमुत्तमं मोक्षगमनमिति श्लोकार्थः ॥९७॥ ततश्च
नाणाविहाण साहुणं ओहावंताण जाव उ ।
कायव्वं सव्वभावेणमेवमाइ जहोचियं ॥९॥ 'नानाविधानां' 'जिन-स्थविरकल्पिका-ऽहालन्दिक-प्रत्येकबुद्धोद्युक्तविहारि-संविग्नपाक्षिकाद्यनेकप्रका. राणाम् , “ओहावंताणं"ति अवधावताम् उत्प्रव्रजितुकामानाम् 'जाव उत्ति एतान् यावदिति भावः, 'कर्तव्यं' विधेयम् , 'सर्वभावेन' समस्तसामर्थ्येन, 'एवमादि' पूर्वोक्तादि 'यथोचितं' यथायोग्यमिति श्लोकार्थः ॥९८॥ यथोचितकृत्यमेव श्लोकेन प्रतिपादयति
नाणं वा दंसणं सुद्धं चरितं संजमं तवं ।
जत्तिय जत्थ जाणिज्जा भावं भत्तीए पूयए ॥९९॥ 'ज्ञान' मतिज्ञानादि, वाशब्दोऽग्रे योदयते', 'दर्शनं' क्षायोपशमनादि, 'शुद्धम्' अनवद्यम्, 'चारित्र' सामायिकादि, 'संयमम्' आश्रवविरमणादि, 'तपः' अनशनादि, 'जत्तिय'ति यावन्मात्रम् , 'यत्र' साधौ, 'जानीयाद्' अवबुध्येत, 'भावं' पदार्थम् , 'भक्त्या' अन्तर्वासनया, तावत् तत्र पूजयेदिति श्लोकार्थः ॥९९॥ समस्तकृत्यपर्यन्तं प्रकरणोपसंहारं च वृत्तेनाऽऽह
लिंगावसेसाण वि जं वसिटुं, संविग्गगीयत्थगुरुवइटुं ।
नाऊण साहूण जहाविहाणं, विहेह तं मोक्खसुहावहं ति ॥१०॥ 'लिगावशेषाणामपि' लिङ्गमात्रोपजीविनामपि, 'यदवशिष्टं' यदुद्वरितम्, संविग्नः उद्यतविहारी, संविग्नश्वाऽसौ गीतार्थश्च बहुश्रुतः, स चाऽसौ गुरुश्च तदुपदिष्टं कथितम् , 'ज्ञात्वा' अवबुद्धयाऽऽगमादिति भावः ।तथा च
जणचित्तग्गहणत्थं, करेति लिंगावसेसे वि ॥ तथा। अग्गीयादाइण्णे खेत्ते अन्नत्थठिईअभावेणं ।
भावाणुवघायणुवत्तणाए तेसिं तु बसियव्वं ॥३२३।। इहरा स-परुवघाओ उच्छोभाईहि अत्तणो लहुया । तेसि पि कम्मबंधो, दुगं पि एयं अणिटुं तु ॥३२४॥ वायाए नमोक्कारो, हत्थुस्सेहो य सीसनमणं च ।
संपुच्छणऽच्छणं छोभवंदणं वंदणं वा वि ॥३२५॥ साधूनां' यतीनाम्, 'यथाविधानं' यथाविधि, “विहेह"त्ति 'विधत्त' कुरुत, 'तत्' पूर्वोक्तम् , 'मोक्षसौख्यावह' शिवशर्मकारि । 'इति' प्रकरणसमाप्तौ ॥१०॥ __ श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे साधुकृत्यस्थानकं चतुर्थ समाप्तम् ॥
1c D मनुष्याणां। 2 E ऊ। 3 अप्रे वाशब्दयोजना नोपलभ्यते । 4c D योज्यते । 5 A B ते तद्दर्शनं । 6Eति ॥१०॥ साहूर्ण ति चउत्थं ठाणं ॥7A Bइविगा। 8cD त तत् । १cD 'णपरिसमा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 245 246 247 248