Book Title: Mulshuddhiprakarana
Author(s): Pradyumnasuri
Publisher: Prakrit Text Society Ahmedabad

View full book text
Previous | Next

Page 164
________________ जिनागमाध्ययनाद्युपदेशः उपलक्षणं च पुस्तकदानम् । यतः पत्त पसत्थ सुभुञ्ज सुविहियहु, पोत्थयजोग्गहु तह कत्तणियहु । लेहणि खडिय सुवेढण दोरा, देंतु लहइ फलु णाणह केरा ॥ २४०॥ __ 'तत्तो निसामणं'ति ततः तेभ्यः सकाशाद् निशामनं श्रवणं तेषां पुस्तकानामिति श्लोकार्थः ॥ ६६ ॥ तथा कुजागमविहाणेणं पोत्थयाणं च वायणं । उग्गहं च पयत्तेण कुज्जा सवण्णुसासणे ॥ ६७ ॥ 'कुर्याद्' विदध्यात् , 'आगमविधानेन' सिद्धान्तोक्तन्यायेन, पुस्तकानां च 'वाचनं' खयमुच्चारणम् । चकारोऽनुक्तसमुच्चये, तेन येषामेव पुस्तकानां वाचनेऽधिकारोऽस्ति गृहस्थस्य तान्येव वाचनीयानि, न शेषाणिः आज्ञाभङ्गा-ऽनवस्था-मिथ्यात्व-विराधनादिमहादोषकारित्वात् । तत्र चोपधानादिकरणेऽनधिकारित्वात् गृहस्थस्य तद्वाचने आज्ञाभङ्गः, तद्भङ्गाच्च धर्मस्याऽप्यभावः । उक्तं च आणाए चिय चरणं, तब्भंगे जाण 'किं न भग्गं ?' ति । आणं वइकमंतो कस्साएसा कुणइ सेसं १ ॥ २४१ ॥ तथा अहिगारिणा खु धम्मो काययो, अणहिगारिणो दोसो । आणाभंगाउ चिय धम्मो आणाइ पडिबद्धो ॥ २४२ ॥ तथानवस्थापि, उक्तं च एगेण कयमकजं करेइ तप्पच्चया पुणो अण्णो । सायाबहुलपरंपरवोच्छेओ संजम-तवाणं ॥ २४३ ॥ (श्रावकधर्मविधि० गा० ३) मिथ्यात्वं च भणिताकरणात् , उक्तं च जो जहवायं न कुणइ मिच्छिद्दिट्ठी तओ हु को अण्णो ? । वड्लेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ २४४ ॥ विराधनां च देवतादिभ्यः सकाशात् प्राप्नोति, उक्तं च उम्मायं व लभेजा रोगायंक व पाउणे दीहं । केवलिपण्णत्ताओ धम्माओ वा वि भंसेज्जा ॥ २४५ ॥ 'उग्गहं च' त्ति अवग्रहं च स्वीकारं च, चकाराद् विप्लवादौ महद्यत्नेन रक्षणं च पुस्तकानामिति गम्यते । 'प्रयत्नेन' बृहदादरेण मञ्जूषादिस्थापनतः । 'कुर्यात्' विदध्यात् । 'सर्वज्ञशासने विभक्तिव्यत्ययात् सर्वज्ञशासनस्य अर्हद्दर्शनस्येति श्लोकार्थः ॥ ६७ ॥ तथा अन्नेसिं भव्वसत्ताणं जहाथामं पगासए । सव्वं वावारमुज्झित्ता कुजा सज्झायमुत्तमं ॥ ६८ ॥ 'अन्येषाम्' आत्मव्यतिरिक्तानाम् , 'भव्यसत्त्वानां' मुक्तिगमनयोग्यप्राणिनाम्, 'यथाथा( स्था )म' यथासामर्थ्यम्, 'प्रकाशयेत्' प्रकटीकुर्यात् । यस्मादुक्तं श्रावकवर्णके-'एस णं देवाणुप्पिया! णिग्गंथे 1 A B f पुस्त। 2 A B °णं च अइकं तो। 3 A B यथासाम । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248