________________
जिनागमाध्ययनाद्युपदेशः उपलक्षणं च पुस्तकदानम् । यतः
पत्त पसत्थ सुभुञ्ज सुविहियहु, पोत्थयजोग्गहु तह कत्तणियहु ।
लेहणि खडिय सुवेढण दोरा, देंतु लहइ फलु णाणह केरा ॥ २४०॥ __ 'तत्तो निसामणं'ति ततः तेभ्यः सकाशाद् निशामनं श्रवणं तेषां पुस्तकानामिति श्लोकार्थः ॥ ६६ ॥ तथा
कुजागमविहाणेणं पोत्थयाणं च वायणं ।
उग्गहं च पयत्तेण कुज्जा सवण्णुसासणे ॥ ६७ ॥ 'कुर्याद्' विदध्यात् , 'आगमविधानेन' सिद्धान्तोक्तन्यायेन, पुस्तकानां च 'वाचनं' खयमुच्चारणम् । चकारोऽनुक्तसमुच्चये, तेन येषामेव पुस्तकानां वाचनेऽधिकारोऽस्ति गृहस्थस्य तान्येव वाचनीयानि, न शेषाणिः आज्ञाभङ्गा-ऽनवस्था-मिथ्यात्व-विराधनादिमहादोषकारित्वात् । तत्र चोपधानादिकरणेऽनधिकारित्वात् गृहस्थस्य तद्वाचने आज्ञाभङ्गः, तद्भङ्गाच्च धर्मस्याऽप्यभावः । उक्तं च
आणाए चिय चरणं, तब्भंगे जाण 'किं न भग्गं ?' ति ।
आणं वइकमंतो कस्साएसा कुणइ सेसं १ ॥ २४१ ॥ तथा
अहिगारिणा खु धम्मो काययो, अणहिगारिणो दोसो ।
आणाभंगाउ चिय धम्मो आणाइ पडिबद्धो ॥ २४२ ॥ तथानवस्थापि, उक्तं च
एगेण कयमकजं करेइ तप्पच्चया पुणो अण्णो ।
सायाबहुलपरंपरवोच्छेओ संजम-तवाणं ॥ २४३ ॥ (श्रावकधर्मविधि० गा० ३) मिथ्यात्वं च भणिताकरणात् , उक्तं च
जो जहवायं न कुणइ मिच्छिद्दिट्ठी तओ हु को अण्णो ? ।
वड्लेइ य मिच्छत्तं परस्स संकं जणेमाणो ॥ २४४ ॥ विराधनां च देवतादिभ्यः सकाशात् प्राप्नोति, उक्तं च
उम्मायं व लभेजा रोगायंक व पाउणे दीहं ।
केवलिपण्णत्ताओ धम्माओ वा वि भंसेज्जा ॥ २४५ ॥ 'उग्गहं च' त्ति अवग्रहं च स्वीकारं च, चकाराद् विप्लवादौ महद्यत्नेन रक्षणं च पुस्तकानामिति गम्यते । 'प्रयत्नेन' बृहदादरेण मञ्जूषादिस्थापनतः । 'कुर्यात्' विदध्यात् । 'सर्वज्ञशासने विभक्तिव्यत्ययात् सर्वज्ञशासनस्य अर्हद्दर्शनस्येति श्लोकार्थः ॥ ६७ ॥ तथा
अन्नेसिं भव्वसत्ताणं जहाथामं पगासए ।
सव्वं वावारमुज्झित्ता कुजा सज्झायमुत्तमं ॥ ६८ ॥ 'अन्येषाम्' आत्मव्यतिरिक्तानाम् , 'भव्यसत्त्वानां' मुक्तिगमनयोग्यप्राणिनाम्, 'यथाथा( स्था )म' यथासामर्थ्यम्, 'प्रकाशयेत्' प्रकटीकुर्यात् । यस्मादुक्तं श्रावकवर्णके-'एस णं देवाणुप्पिया! णिग्गंथे
1 A B f पुस्त। 2 A B °णं च अइकं तो। 3 A B यथासाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org