________________
१४०
सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् 'सुप्रसन्नाः' अतिप्रसादवन्तः; प्रसादिता हि गुरवः श्रुतं प्रयच्छन्ति । उक्तं च
विणओणएहिं पंजलिउडेहिं छंदमणुयत्तमाणेहिं ।।
आराहिओ गुरुयणो सुयं बहुविहं लहं देइ ॥ २३४ ॥ (आव० नि० गा० १३८) 'जिणाणाए' जिनाज्ञया तीर्थकरोपदेशेन, 'विनीतविनेयेभ्यः श्रुतं दातव्यमेव' इत्येवंरूपया । 'कारणं' हेतुः, 'गुरवः' यथावच्छास्त्रार्थवेदिनः, 'परं' प्रधानम् , 'पुस्तकानि च' लिखितजिनागमपत्रसञ्चयरूपाणि, 'ज्ञानस्य' श्रुतज्ञानस्य, 'साम्प्रतम्' अस्मिन् दुःषमाकाले 'साधनं' निष्पादकम् । 'ततः' इत्युत्तरश्लोकसम्बन्धनार्थः । इति श्लोकार्थः ॥ ६४ ॥
जिणाणाबहुमाणेणं विहाणेणं लिहावए।।
पोत्थयाणि महत्थाणि वत्थमाईहिं पूयए ॥ ६५ ॥ 'जिनाज्ञाबहुमानेन' तीर्थकरादेशप्नीत्या, 'विधानेन' विधिना, लेखयेत् पुस्तकानि 'महार्थानि' तल्लिखितग्रन्थानां महार्थत्वेन प्रचुराभिधेयानि, यत एवंविधपुस्तकलेखनस्य बहुगुणत्वात् । तथा हि
न ते नरा दुर्गतिमाप्नुवन्ति, न मूकतां नैव जडखभावम् । न चान्धतां बुद्धिविहीनतां च, ये लेखयन्तीह जिनस्य वाक्यम् ।। २३५ ॥ लेखयन्ति नरा धन्या ये जैनागमपुस्तकम् ।
ते सर्व वाङ्मयं ज्ञात्वा सिद्धिं यान्ति न संशयः ॥ २३६ ॥ ततश्च 'वस्त्रादिभिः' वेष्टनप्रभृतिभिः । आदिशब्दात् पुष्पाधष्टप्रकारपूजाग्रहः । 'पूजयेद्' अर्चयेदिति श्लोकार्थः ।। ६५ ॥ इत्थमागमं पुस्तकेषु लेखयित्वा यत् कर्तव्यं तच्छोकेनाह
गीयत्थाणं सुसीलाणं पगासिंताणमागमं ।
विहाणेण मुणिंदाणं दाणं तत्तो निसामणं ॥ ६६ ॥ 'गीतार्थानां पठितावबुद्धार्थानाम् । 'सुशीलानां' शोभन चारित्राणाम् , यतस्त एव योग्या गुणभाजनत्वात् । उक्तं च
___ यावच्छीलं निर्मलं सुप्रशस्तं, तावत्सर्वाः सम्पदो हस्तसंस्थाः।
तचेन्मोहादुज्झितं खण्डितं वा, दोषध्वासाऽऽवासवृक्षश्च जातः ॥ २३७॥ 'पगासिंताणमागमति प्रकाशयतां प्रकटीकुर्वतां व्याख्यानादिद्वारेण , आगमं सिद्धान्तम् । 'विधानेन' विधिना, प्रकाशयतामित्यत्र सम्बध्यते । अविधिप्रकाशने दोषसम्भवात् । यत उक्तम्
आमे घडे णिहित्तं जहा जलं तं घडं विणासेइ ।
इय सिद्धंतरहस्सं अप्पाहारं विणासेइ ॥ २३८ ॥ (जी० भा० गा० २६०१) काकाक्षिगोलकन्यायेनातनदानपदेऽपि सम्बध्यते । ततश्च विधानेन 'मुनीन्द्राणाम्' आचार्याणाम् , 'दान' वितरणम् , पुस्तकानां विधेयमिति भावः । पुस्तकदानविधिप्रतिपादनार्थ चोक्तं वृद्धः, तथा च
दाउं आसण-वत्थ-पत्तपभिई सवं मणोमोयगं,
ठाऊणं पुरओ कयंजलिउडं वत्तव्यमेवं जहा । 'संसारे जलहिम्मि दुत्तरतरे तुम्हे तरंडं जओ,
वक्खाणेण इमस्स मज्झ परमा कजा पभो! णिजरा' ॥ २३९ ॥ 10 D इतिरूप। 2 C D °खकस्य । 3 C D नका। 4 A B द्वागमानाम् । 5 C D पभियं स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org