________________
सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् पावयणे अटे अयं परमडे' इत्यादि । तद्व्याख्यानद्वारेण वा सामर्थ्य सति प्रकाशयेत् । तथा 'सर्व' निःशेषम् , 'व्यापारं' गृहकृत्यम् , 'उज्झित्त'त्ति प्रोज्झ्य-त्यक्त्वा, 'कुर्याद्' विधेयात्, 'खाध्यायं' परावर्तनालक्षणम् , 'उत्तम' प्रधानम् , यस्मात् खाध्यायेनाप्यागमस्य भक्तिः कृता भवतीति श्लोकार्थः ॥ ६८ ॥ तथा
पुव्वरत्ताऽवरत्तम्मि चिंतेजा पणिहाणवं ।
भावेज्जा भावणासारं परं अप्पाणमेव य ॥ ६९ ॥ 'पूर्वरात्रा-ऽपररात्रे' रात्रिप्रहरद्वयोर्ध्वम् , 'चिन्तयेत्' चेतस्यवस्थापयेत् , आगममित्यध्याहारः 'प्रणिधानवान्' चित्तसमाधानवान् । तथा 'भावयेत्' परिभावयेत् , 'भावनासारं' भावनाप्रधानम् , 'परम्' आत्मव्यतिरिक्तम् , 'आत्मानमेव च' स्वयमेव च, अनुप्रेक्षाया अपि स्वाध्यायभेदत्वात् , एतदपि सिद्धान्तकृत्यमेवेति श्लोकार्थः ॥६९॥ प्रकरणोपसंहारमुपदेशं च वृत्तेनाऽऽह
एयं जिणिंदागमपोत्थयाणं, किच्चं दिसादसणमेत्तमुत्तं ।
सुसावगो सासणभत्तिमंतो, करेज णाऊण जहारिहं ति ॥ ७० ॥ 'एयंति एतजिनेन्द्रागमपुस्तकानाम् , 'कृत्यं कर्तव्यम् , 'दिसादंसणमेत्तंति दिग्दर्शनमात्रम् , 'उत्तं'ति उक्त प्रतिपादितम् । ततश्च 'सुश्रावकः' शोभनः श्रमणोपासकः, 'शासनभक्तिमान्' अर्हद्दर्शनबहुमानवान् , 'करेज'त्ति कुर्यात् , 'णाऊण'त्ति ज्ञात्वा अवबुध्य पूर्वोक्तकृत्यमेव, यथार्ह-यथायोग्यम् । इतिशब्दः प्रकरणपरिसमाप्ताविति वृत्तार्थः ॥ ७० ॥
इति श्रीदेवचन्द्राचार्यविरचिते मूलशुद्धिविवरणे तृतीयस्थानकविवरणं समाप्तमिति ॥
1 A B°भेदात् ।
2 E'त्त वुत्तं ।
Eति॥३२॥ जिणसासणपोत्थयाणं ति तइयं ठाणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org