SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ [ साधुकृत्याख्यं चतुर्थं स्थानकम् ] व्याख्यातं तृतीयस्थानकम्। सम्प्रति चतुर्थमारभ्यते, अस्य च पूर्वेण सहाऽयमभिसम्बन्धः - पूर्वत्र पुस्तककृत्यमभिहितम्, पुस्तकानि च साधुमुखात् श्रोतव्यानि साधुभ्यो देयानि साध्वाधाराणि चेति । अतः साधुकृत्यस्थानकम्, तस्य चेदमादिसूत्रम् मुणीण णाणाइगुणालयाणं, समुद्दचंदाइनिदंसणाणं । जयं जया जाण जहाणुरूवं, तयं तया ताण तहा विदेह ॥ ७१ ॥ 'मुनीनां' साधूनाम् । 'ज्ञानादिगुगालयानां ' ज्ञानप्रभृतिगुणावासानाम् । 'समुद्र - चन्द्रादिनिदर्शनानां ' सागर- शशधर प्रमुखदृष्टान्तानाम् । “ जयं”ति यकत् । " जय" त्ति यदा । " जाण" त्ति येषाम् । “जहाणुरूवं"ति यथानुरूपं=यथायोग्यम् । “तयं" ति तकत् । “तय”त्ति तदा । "ताण "त्ति तेषाम् । “तह "त्ति तथैव । “विहेह”त्ति कुरुतेति वृत्तार्थः ॥ ७१ ॥ 1 कस्मादेवं मुनीनां यथायोग्यं विधेयम् इति प्रश्ने प्रत्युत्तरदानार्थं वृत्तद्वयमाह जं जो लिक्खागहणम्मि भीमे, अणोरपारम्मि भवोहिम्मि । कल्लोलमाला व सया भमंता, दुक्खं व सोक्खं व सयं सहंता ॥ ७२ ॥ मस्सजम्मं जिणनाहधम्मं, लहंति जीवा खविऊण कम्मं । महाणुभावाण मुणीण तम्हा, जहासमाही पडितप्पियव्वं ॥ ७३ ॥ 'यद्' यस्मात् । 'योनिलक्षगहने' चतुरशीत्युत्पत्तिस्थानलक्षगहरे, दीर्घत्वमलाक्षणिकम् । 'भीमे ' भयानके । 'अणोरपारे' अनर्वाग्भागपर्यन्ते । ' भवोदधौ ' संसारसमुद्रे | 'कल्लोलमालावत्' लहरीसङ्घातवत् । ‘सदा’ सर्वकालम् । ‘भ्रमन्तः ' पर्यटन्तः । दुःखं वा सौख्यं वा 'स्वयम्' आत्मना 'सहन्तः' अनुभवन्तः । 1 ततश्च ' मनुष्यजन्म' मनुजभवम् । तदनन्तरं च जिननाथधर्मं 'लभन्ते' प्राप्नुवन्ति, 'जीवाः ' जन्तवः । ' क्षपयित्वा' खोटयित्वा 'कर्म' खोपार्जितम् । उक्तं च तथा कम्माणं तु पहाणा अणुपुव्विं कयाइ उ । जीवा सोहिमणुपत्ता ययंति मणुस्सर्यं । २४६ ।। (उ० अ० ३ गा० ७) जह महण्णवमज्झविल्लकल्लोलपेल्लिय समिल चलइ वलइ, es धाव तुडजोइण पुणु कहवि परिभमंत जुगछिड्ड पावइ । तह भवसागर निवडियह दुलहउ माणुसजम्मु, विउको लहइ जड़ पर जिणवरधम् ॥ २४७ ॥ इत्यादि । एवं च स्थिते 'महानुभावानाम्' अचिन्त्यशक्तियुक्तानाम् 'मुनीनां' साधूनाम् । ' तम्ह'त्ति तस्मात् । 'यथासमाधि' यथासमाधानं यथासमाधौ वा । 'प्रतितर्पयितव्यं' विनयितव्यं विनय- वैयावृत्त्यादिकरणप्रीणनेनेति वृत्तद्वयार्थः ॥ ७२-७३ ॥ तदेवं प्रतितर्पणमभिधातुकामो विनयमूलत्वाद्धर्मस्य, उक्तं च Jain Education International 1 A B C D° वहम्मि | वेल्ल' | 5 AB°ल वलइ, । 2CD अणुपुब्वि, उत्तराध्ययनसूत्रे 'आणुपुब्वी' इत्यस्ति । 3 A B आययिति । 60 D पक्खल | 7 C D दुलहु | 800 तत्थु वि धण्णुड को विल' । For Private & Personal Use Only 4 AB www.jainelibrary.org
SR No.001387
Book TitleMulshuddhiprakarana
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherPrakrit Text Society Ahmedabad
Publication Year
Total Pages248
LanguagePrakrit
ClassificationBook_Devnagari, Ethics, Philosophy, & Religion
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy