________________
११६
सटीके मूलशुद्धिप्रकरणे तृतीय स्थानकम् साम्प्रतमागमस्य नाथ-बन्धुत्वे एकश्लोकेनाऽऽह
एसो णाहो अणाहाणं सव्वभूयाण भावओ ।
भावबंधू इमो चेव सव्वसोक्खाण कारणं ॥ ४४ ॥ एष 'नाथः' नायकः । 'अनाथानाम् ' अस्वामिकानाम् । केषाम् ? 'सर्वभूतानां' निःशेषजन्तूनाम् । 'भावतः' परमार्थतः । यथा हि खामी समाश्रितान् रक्षति एवमसावप्यहिंसाप्रतिपादनपरवाक्योपदेशतः सर्वजन्तून् रक्षति । तथा 'भावबन्धुः' परमार्थभ्राता । 'इमो चे'त्ति एष एव । 'सर्वसौख्यानां' समस्तनिवतीनाम् । 'कारणं' हेतुः । तथा हि
जह बंधू वरसिक्खं वियरंतो सोक्खकारणं होइ ।
तह आगमो वि सिवसुहहेऊ नाणाइदाणाओ॥१८५ ॥ इति श्लोकार्थः ॥ ४४ ॥ अधुनाऽऽगमस्यैव दीपरूपतां श्लोकेन प्रतिपादयति
अंधयारे दुरुत्तारे घोरे संसारचारए ।
एसो चेव महादीवो लोया-ऽलोयावलोयणो ॥ ४५ ॥ 'अन्धकारे' तमोबहुले । 'दुरुत्तारे' कष्टनिर्गमे । 'घोरे' रौदे । 'संसारचारके' भवगुप्तिगृहे । एष चैव महादीपः, 'लोका-ऽलोकावलोकनः' निःशेषपदार्थप्रदर्शकः । इति श्लोकार्थः ॥ ४५ ॥ आगमश्चक्षुर्भूत इति श्लोकेनाऽऽह
जेणं सग्गा-ऽपवग्गाणं मग्गं दाएइ देहिणं ।
चक्खुभूओ इमो तेणं सव्वसि भवपाणिणं ॥ ४६ ॥ 'जेणं ति येन कारणेन । 'खर्गा-ऽपवर्गाणां' देवलोक-मोक्षाणां 'मार्ग' पन्थानं ज्ञान-दर्शन-चारित्ररूपम् । 'दाएई'त्ति दर्शयति । 'देहिनां' प्राणिनाम् । 'चक्षुर्भूतः' दृष्टिकल्पः । 'इमो' अयम् । तेणं'ति तेन कारणेन । 'सर्वेषां' समस्तानाम् । 'भव्यप्राणिनां' मुक्तिगमनयोग्यजन्तूनाम् , यस्माद् अभव्यानामयमपि न सन्मार्गदर्शको जायतेऽतो भव्यानामित्युक्तम् । इति श्लोकार्थः ॥ ४६ ॥ सम्प्रति जननी-जनकरूपतामस्य श्लोकेनाऽऽह
आगमो चेव जीवाणं जणणी णेहणिब्भरा ।
जोग-खेमंकरो निच्चं आगमो जणगो तहा ॥४७॥ आगमश्चैवं जीवानां 'जननी' माता 'स्नेहनिर्भरा' अञ्जसाऽऽपूर्णा । तथा हि
पालण-पोसण-परिवद्धणाइ पुत्ताण कुणइ जह माया।
तह एसो जीवाणं करेइ जिणभणियसिद्धंतो ।। १८६ ॥ 'जोग-खेमंकरो'त्ति तत्राऽभिनवस्योपार्जनं योगः, पूर्वोपार्जितस्य च रक्षणं क्षेमम् , ते करोतीति योग-क्षेमकरः । 'नित्यं सदा । आगमो 'जनकः' पिता । तथा तेनैव प्रकारेण । तथा हि
10 D°तानाम् । भावतः। 2A B°व' एष। 38 लोयऽव। 4 C D °दार्थदर्श। 5A B°इ' दर्श° । 60 E जोग-क्खेम। 7 C D E Jओ त। 8A B°व जननी माता जीवानां। 9A B तं की।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org