________________
जिनागममाहात्म्यम् पेयं दुग्धादि, अपेयं रुधिरादि । लोकोत्तरं पेयं साधूनां प्राशुकैषणीयसौवीरादि, अपेयमकायादि; देशविरतानां पेयमुदकादि, अपेयं मद्यादि । 'जं च भोजं न भोजंति चकारस्य व्यवहितसम्बन्धाद् यद्भोज्यं यच्च न भोज्यम् । तत्र भोज्यं लौकिकमोदनादि, न भोज्यं गोमांसादि । लोकोत्तरं भोज्यं यतीनामेषणीयपिण्डादि, न भोज्यं तदेवाऽनेषणीयादि; विरता-ऽविरतानां तु भोज्यमसंसक्तभक्तादि, न भोज्यमनन्तकायादि । 'जुत्ता-ऽजुत्तं' ति युक्ता-ऽयुक्तम् । लौकिकं युक्तमभ्यागतागतप्रतिपत्त्यादि, अयुक्तं परद्रोहादि । लोकोत्तरं युक्तं वतिनां परोपकारकरणादि, अयुक्तं सिद्धान्तार्थगृहनादि, श्राद्धानां तु युक्तं यतिपर्युपासनादि, अयुक्तं पाषण्डिकोपसेवादि । 'सारा-ऽसारं ति सारा-ऽसारम् । लौकिकं सारं वज्र-गोशीर्ष-चन्दन-स्रग-ऽङ्गनादि, असारं खरोपलैरण्डकाष्ठ-कण्डकादि । लोकोत्तरं सारं मुनीनां नवब्रह्मचर्यगुप्तिसनाथब्रह्मचर्यपरिपालनादि, असारं तस्यैवातिक्रम-व्यतिक्रमा-ऽतिचारा-ऽनाचारादिदोषैर्मलिनीकरणादि; श्रावकाणां सारं सर्वविरतिलालसपरिणामादि, असारं प्रमादादि । 'मज्झिमा-ऽमज्झिमति मध्या-ऽमध्यम् । तत्र मध्यमुभयपक्षेऽपि सारा-ऽसारमध्यवर्ति, अमध्यं तु सारा-ऽसारमेव । 'भक्खा-ऽभक्खंति भक्ष्या-ऽभक्ष्यम् । लौकिकं भक्ष्यं मोदक-नालिकेरादि, अभक्ष्यं किम्पाकफलादि लोकोत्तरं भक्ष्यं यतीनां तदेवैषणीयादि, अभक्ष्यमप्राशुकादि; श्रावकाणामपि भक्ष्यं तदेवाविरुद्धम् , अभक्ष्यं भटित्रीकृतफलादि । 'सोक्खा-ऽसोक्खंति सौख्या-ऽसौख्यम् । लौकिकं सौख्यं विषयसुखादि, असौख्यं तदप्राप्त्यादि । लोकोत्तरं सौख्यं संयतानां व्रतपर्यायधृत्यादि, असौख्यं तत्रैवारत्यादि । उक्तं च
देवलोगसमाणो उ परियाओ महेसिणं ।
रयाणं, अरयाणं च महानरर्यसालिसो ॥१८४॥ (दश० प्र० चू० गा० १०) श्रावकाणां सौख्यं पौषधानुष्ठानकरणादि, असौख्यं शङ्का-काङ्क्षाद्याकुलितचित्तादि । यद्वा उभयोरपि सौख्यं मोक्षः, असौख्यं संसारः । 'जेण'त्ति येन-आगमेन । 'लक्खंति'त्ति लक्षयन्ति निश्चिन्वन्ति । 'दक्ख'त्ति दक्षाः पण्डिता इति वृत्तार्थः ॥ ४१ ॥
___ ततश्च–'सद्धासंवेगं'ति श्रद्धासंवेगः, श्रद्धया संयमानुष्ठानकरणरूपया, संवेगः सांसारिकसुखे दुःखाभिप्रायः, अतस्तम् । 'आवण्ण'त्ति आपन्नाः प्राप्ताः । 'भीय'त्ति भीताः चकिताः । 'दुक्खाणं ति दुःखानां शारीरिक-मानसिकबाधारूपाणाम् । 'पाणिणो'त्ति प्राणिनः-जन्तवः । 'कुणंत'त्ति कुर्वन्तः विदधानाः । 'तत्थ वुत्ताई'ति तत्र=आगमे, उक्तानि =कथितानि । 'पावेंति परमति प्राप्नुवन्ति लभन्ते, परमं प्रकृष्टम् । 'पर्य'ति पदं स्थानमिति श्लोकार्थः ॥ ४२ ॥
निगमनमाह-'तम्ह'त्ति तस्मात् । 'एसो'त्ति एषः प्रत्यक्षः । 'दुहऽत्ताणं'ति दुःखार्तानां दुःखपीडितानाम् । 'ताणं'ति त्राणं शरणम् । 'सत्ताणं'ति सत्त्वानां प्राणिनाम् । 'आगमो'त्ति आगमः सिद्धान्त इति श्लोकार्धार्थः ॥ ४३ पू० ॥ न केवलं त्राणम् , आलम्बनमप्यसौ । यत आह श्लोकस्योत्तरार्धम्
भवकूवे पडताणं एसो आलंबणं परं ॥ ४३ ॥ भवकूपे संसारावटे । पतता=निमज्जताम् । एषः आगमः । आलम्बनम् अवष्टम्भनमुद्धरणरज्जुरित्यर्थः । परं-प्रधानमिति श्लोकोत्तरार्धार्थः ॥ ४३॥
10°त्तरं साधूनां पेयं, D पुस्तके पाठत्रुटिः। 20D °कण्टका। 30D °चारदो। 4 0D यसारिसो। 5A कव्याधिरू। 6 C D °नि 'पाविति' [त्ति] पामुवन्ति लभन्ते, 'परमं ति परमम् । 7A B कूवे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org