Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 173
________________ 166 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते कसिध्रकपुराग]सारिकाणामेव, नान्येषाम् देवदारुवनम् कुबेरवनादिशब्दानामिति देवदारुवनादीनां न णत्वम् // 64 // नसस्य // 2 // 3 // 65 // पूर्वपदस्थाद्रपुवर्णात्परस्य नससम्बन्धिनकारस्य णः स्यात् / प्रणसः / निर्णसः। प्रणसं मुखम् // 65 // अ० प्रगता प्रवृद्धा वा नासिका यस्य पुरुषस्य स पुरुषः प्रणसः / निर्गता नासिकाऽस्य स निर्णसः / प्र प्रकृष्टा नासिकाऽस्य मुखस्य तत्, प्रणसं मुखम् एवं निर्णसं मुखम् / सर्वत्र ‘उपसर्गात्' (7 / 3 / 162) इति तद्धितसूत्रेण नासिकाशब्दस्य नस इत्यादेशः // 65 // निष्प्राग्रेऽन्तःखदिरकार्याम्रशरेक्षुप्लक्षपीयुक्षाभ्यो वनस्य // 2 // 3 // 66 // __ [पीयुक्षाशब्दोऽव्युत्पन्न आबन्तः] निरादिभ्यः परस्य वनशब्दनकारस्य णः स्यात् / निर्वणम्, प्रवणम्, अग्रेवणम्, अन्तर्वणम् / खदिरवणम्, कार्यवणम् आम्रवणम् / शरवणम्, इक्षुवणम्, प्लक्षवणम्, पीयुक्षावणम् // 66 // अ० निष्प्राग्रेऽन्तः सूत्रे यद्बहुवचनम्, तद्व्याप्त्यर्थम्, तेन संज्ञायामसंज्ञायां वा गम्यमानायां णत्वं भवति; अन्यथा हि कोटरमिश्रकसिध्रकेत्यादि वक्ष्यमाणनियमबलेन संज्ञायां णत्वं न स्यादित्यर्थः / निर्गतं वनं यस्मात् तत् निर्वणम् / प्रकृष्टं प्रगतं वा वनं यत् तत् प्रवणम् // अग्रं वनस्य अग्रे वणम्-अत्र ‘पारेमध्येऽग्रेऽन्तः षष्ठया वा' (3 / 1 / 30) इति सूत्रेण अग्रशब्दस्य एकारः, अग्रेवणमिति सिद्धम् / / अन्तर्वणस्य अन्तर्वणम् // 66 // . द्वित्रिस्वरौषधिवृक्षेभ्यो नवाऽनिरिकादिभ्यः // 2 // 3 // 67 // द्विस्वर-त्रिस्वर-औषधिवाचि-वृक्षवाचिशब्देभ्यः परस्य वनशब्दनकारस्य इरिकादिवर्जितेभ्यो णो वा स्यात् / ओषधि. दूर्वावणम् दूर्वावनम्; मूर्वावणमित्यादि। त्रिस्वर. नीवारणमित्यादि // द्विस्वरवृक्ष. शिगवणम् शिगुवनम्, दारुवणम् दारुवनम्; त्रिस्वर. करीरवणम् करीरवनम्, बदरीवणम् बदरीवनमित्यादि / ओषध्यः फलपाकान्ता लता गुल्माश्च वीरुधः / फली वनस्पतियो वृक्षाः पुष्पफलोपगाः // 1 // इति यद्यपि भेदस्तथाप्यतिबहुत्वार्थबहुवचनबलाढक्षशब्देन सर्ववनस्पतीनां ग्रहणं भवति, अत एव न यथासङ्ग्यमपि, संज्ञायामसंज्ञायां च णत्वं स्यात् / ओषधिवृक्षेभ्य इति किम् ? विदारीवनम्, पितृवनम् शिरीषवनम् / अनिरिकादिभ्य इति किम् ? इरिकावनम् / इरिका तिरिका तिमिर चीरिका कर्मार खीर हरि; इरिकादिराकृतिगणः / इरिकादिविशेषवर्जनाद्विशेषाणामेव वृक्षाणामयं विधिः, तेनेह न भवति णत्वम्-द्रुमवनम् वृक्षवनम् / एतेन विशेषवृक्षाणामेव णत्वं न सामान्यवृक्षाणाम्; वृक्षगुमशिखरि-इत्यादिनामपरस्य वनस्य न णत्वम् // 67 // ___ अ० द्वौ च त्रयश्च द्वित्रयः, द्वित्रयः स्वरा येषां ते द्वित्रिस्वराः / ओषधयश्च वृक्षाश्च ओषधिवृक्षाः / द्वित्रिस्वराश्च ते ओषधिवृक्षाश्च / तेभ्यः / इरिका आदिपेषां ते न विद्यन्ते इरिकादिशब्दा येषु ओषधिवृक्षेषु ते / तेभ्यः ‘अन् स्वरे' (3 / 2 / 129) // द्विस्वरऔषधिवाचिशब्दप्रयोगा इमे-दूर्वावणम् मूर्वावणम् व्रीहिवणम् शालिवणम् माषवणम् / त्रिस्वर ओषधिशब्दाः-नीवारवणम् कोद्रववणम् प्रियङ्गुवणमित्यादि / पक्षे दूर्वावनं मूर्वावनमित्यादि / / द्विस्वरवृक्षशब्दप्रयोगा इमे-दारुवणम् शिवणम् / त्रिस्वरवृक्षशब्द. करीरवणम् बदरीवणम् शिरीषवणमिति / / पक्षे दारुवनमित्यादि / फलपाकेन अन्तो विनाशो येषाम् ये फलपरिपाकेन विनश्यन्ति ते ओषधय इति नाम्ना वनस्पतय उच्यन्तेयथा व्रीहियुगन्धरीगोधूममुद्गमाषादि अन्नौषधयः / तथा लताः केतक्याद्याः, गुल्मा वंशेक्षुदर्भतृणाद्याः; एता वीरुध

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310