Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text ________________ 256 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवरिभ्यामलङ्कृते प्राणितूर्याङ्गाणाम् // 3 / 1137 // 'प्राण्यङ्गानां तूर्याङ्गाणां च स्वैर्द्वन्द्व एकार्थः स्यात् / प्राण्यङ्ग, दन्ताश्च ओष्ठौ चेदं दन्तोष्ठम्, इदं पाणिपादम्, इदं कर्णनासिकम् / तूर्याङ्ग, इदं शङ्कपटहम्, इदं भेरीकाहलम् / स्वैरित्येव पाणिगृध्रौ, पीठपटही // 137 // अ० शङ्खादीनि शाङ्खिकवादकादयः, तेषां समुदायः तूर्यमुच्यते तूर्याणां अङ्गा-अवयवाः // 137 // . चरणस्य स्थेणोऽद्यतन्यामनुवादे // 3 // 11138 // 'चरणाः कठादयः, प्रमाणान्तरप्रतिपन्नस्यार्थस्य शब्देन सङ्कीर्तनमनुवादः / अद्यतन्यां परभूतायां यौ चरणस्थेणी तयोः कर्तृत्वेन सम्बन्धिनो ये चरणास्तद्वाचिशब्दानां स्वैर्द्वन्द्वोऽनुवादविषये एकार्थः स्यात् / प्रत्यष्ठात् कठकालापम् / उदगात् कठकौथुमम् / 'एषामुदयप्रतिष्ठे कोऽप्यनुवदति // 138 // अ० कठेन प्रोक्तो वेदः 'तेन प्रोक्ते' (6 / 3 / 181) इत्यण् ‘कठादिभ्यो वेदे लुप्' (6 / 3 / 183) इत्यनेन अण् लुप्यते / कटं वेत्त्यधीते वा 'तद्वेत्त्यधीते' (6 / 2 / 117) अण् 'प्रोक्तात्' (6 / 2 / 129) इत्यणो लुप्, एवं 'कलापिना प्रोक्तो वेद इत्यादि / कठश्च कालापश्च कठाश्च कालापाश्चेति वा इत्यादि-वाक्यानि / प्रत्यष्ठात् स्था प्रतिपूर्वः अद्यतनी दि 'सिजद्यतन्यां' (3 / 4/53) 'पिबैतिदाभूस्थःसिचो लुप् परस्मै न चेट्' (4 / 3 / 66) सिच् लुप्यते, अट् / उदगात्इण्क् गतौ उत्पूर्वं अद्यतनी सिच् ‘इणिकोर्गा' (4 / 4 / 23) इणो गा आदेशः // 138 / / __अक्लीबेऽध्वर्युक्रतोः // 3 // 11139 // अध्वर्यवो यजुर्वेदविदः, तेषां वेदोऽप्यध्वर्युः, यजुर्वेदोक्ताः क्रतवोऽश्वमेधादयोऽध्वर्युक्रतवः, अध्वर्युक्रतुवाचिशब्दानां स्वैर्द्वन्द्र एकार्थो भवति, अक्लीबे / अध्वर्युक्रतुवाची शब्दचैन क्लीबः / अर्काश्वमेधम् // 139 // _ निकटपाठस्य // 3 / 1 / 140 // निकटः पाठो येषामध्येतॄणां ते निकटपाठाः, तद्वाचिनां द्वन्द्वः स्वैरेकार्थः स्यात् / पदकक्रमकम् / पदानन्तरं क्रमस्य पाठात्पाठयोनिकटत्वम् // 140 // अ० पदमधीते क्रममधीते ‘पदक्रमशिक्षामीमांसासाम्नोऽकः' (6 / 2 / 126) इति. अकप्रत्ययः / पदकश्च क्रमकश्च पदकक्रमकम् // 140 // नित्यवरस्य // 3 // 1 // 14 // नित्यमकारणं जातिनिबद्धं वैरं येषां तद्वाचिशब्दानां स्वैर्द्वन्द्व एकार्थः स्यात् / अहिनकुलम् ब्राह्मणश्रमणम्, अश्वमहिषम्, गोव्याघ्रम्, काकोलूकम्, नित्यवैरस्येति किम् ? देवासुराः देवासुरम् // 141 // अ० तद्वाचि(शब्दा)नां कोऽर्थः नित्यवैरवाचिनाम्, पशुविकल्पः पक्षिविकल्पश्च परत्वात्, 'नित्यवैरस्य' इत्यनेन बाध्यते / कौरवपाण्डवाः, कौरवपाण्डवम् / कौरवपाण्डवानां देवानां असुराणां च न जातिनिबद्धं वैरम्, किन्तु 1. अत्र द्वन्द्वान्ते श्रुताङ्गशब्दस्य प्रत्येकं योगात् प्राण्यङ्गानां प्राण्यङ्गैस्तूर्याङ्गाणां तूर्याङ्गैः समास एकवद्भवति न व्यतिरेकेण तेन प्राणि...- गृध्रावित्यादौ नैकत्वम्, प्राण्यङ्गं प्राण्यवयवः, तूर्याङ्गं तूर्योपकारकम् / 2. वेदशाखाध्येतारः कठादयश्चरणाः, पदा प्रतिपत्त्रा प्रमामान्तरेणावगतमप्यर्थं कार्यान्तरार्थं प्रयोक्ता प्रतिपाद्यते तदाऽनुवादो भवतीत्यर्थः / ते चरणा यदा लुङन्तस्थाधातोलुंडन्तेण्धातोः कर्तारो भवन्ति तदा तेषां द्वन्द्वोऽनुवादे एकार्थः स्यादिति भावः / 3. यदा कठेषु कालापेषु च प्रतिष्ठितेषु कठेषु कौंथुमेषु चोदितेषु आवाभ्यां तत्र गन्तव्यमिति संकेतयित्वा तत्संकेतं विस्मृत्यासीनं प्रतीदं वाक्यमुच्यत इति भावः / 4. कलापिना प्रोक्तं वेदमधीयते इत्यर्थे तेन प्रोक्तेत्यणि 'कलापिकुथुमि' (74 / 12) इत्यनेन अन्त्यस्वरादिलोपे कालापा इति भवति /
Loading... Page Navigation 1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310