Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
________________ 283 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 'विश्वमित्रो माणवकः ॥छ॥७९॥ नरे // 3 / 2 / 80 // विश्वस्य नरशब्दे-उत्तरपदे-नाम्नि दीर्घः स्यात् / विश्वे नरा अस्य विश्वानरो नाम कश्चित् ॥छ।।८०॥ वसुराटोः // 3 // 2 // 81 // विश्वस्य वसौ राटि चोत्तरपदे दीर्घः स्यात् / विश्वं वसु अस्य विश्वावसुः / विश्वस्मिन् राजते इति विश्वाराट् / राडिति विकृतिनिर्देशादिह न दीर्घः - विश्वराजौ ॥छ।।८१॥ वलच्यपित्रादेः // 3 / 2 / 82 // वलच् प्रत्यये परे पित्रादिवर्जस्वरान्तशब्दानां दीर्घः स्यात् / आसुतीवलः / कृषीवलः / अपित्रादेरिति किं ? पितृवलः, मातृवलः, / भ्रातुवलः ॥छ।।८२॥ अ० सूत्रे वलजिति चकारः किम् ? यत्र बलशब्द उत्तरपदवर्ती भवति तत्र वा भूत् / कायबलं / वचनबलं / नागबलं / यथा अत्र, उत्सङ्गावलः, दन्तावलः / पुत्रावलः / आसुतिः सुरा / आसुतिरस्यास्तीति 'कृष्यादिभ्यो वलच्' (7 / 2 / 27) एवं कृषिः, दन्तावस्य सः / कृष्यादि० वलच् / / 82 // चितेः कचि // 3 / 2 / 83 // चितिशब्दस्य कचिप्रत्यये परे दीर्घः स्यात् / एकचितीकः / द्विचितीकः ॥छ।।८३॥ . अ० चितिशब्दः प्रतिमावाची एका चितिरस्मिन् ‘शेषाद्वा' (7 / 3 / 125) इति कच् / / 83 / / _ स्वामिचिह्नस्याविष्टाष्टपञ्चभिन्नछिन्नछिद्रसूवस्वस्तिकस्य कर्णे // 3 // 2 // 84 // ___ स्वामिचिह्नवाचिशब्दस्य विष्टादिवर्जितस्य कर्णशब्दे उत्तरपदे दीर्घोतादेशः स्यात् / दात्राकर्णः पशुः / द्विगुणाकर्णः, द्वयङ्गुलाकर्णः / स्वामिचिह्नस्येति किम् ? लम्बकर्णः, अविद्धकर्णः शिशुः / चिह्नस्येति किं ? वाहनकर्णः / विष्टादिवर्जनं किं ? विष्टकर्णः, अष्टकर्ण इत्यादि ॥छ।।८४॥ अ० दात्रमिव दात्रं चिह्न कर्णे यस्य स दात्राकर्णः, द्विगुणं चिह्नं कर्णे यस्य स द्विगुणाकर्णः, आदिशब्दात्पञ्चकर्णः, भिन्नकर्णः, छिन्नकर्णः, च्छिद्रकर्णः, सुवकर्णः, स्वस्तिककर्णः / / 84 / / ___ गतिकारकस्य नहिवृतिवृषिव्यधिरुचिसहितनौ कौ // 3 / 2 / 85 // गतिसञकस्य कारकवाचिनश्च नह्यादिषु किबन्तेषूत्तरपदेषु दीर्घः स्यात् / उपानत्, नीवृत्, प्रावृट, वावित्, नीरुक्, तुरासट, परीतत् / गतिकारकस्येति किम् ? / पटुरुक् श्वेतरुक्, 'इह किग्रहणादन्यत्र धातुग्रहणे तदादि विधिर्लभ्यते तेन अयस्कृतं अयस्कारः इत्यादौ सत्वं सिद्धं, अन्यथा हि अयस्कृत् अत्रैव स्यात् ॥छ।।८५॥ 1. अत्र मित्रशब्दो न ऋष्यर्थवाचकः तस्मात् नात्वं, विश्वं मित्रमस्य विश्वमित्रो मुनिरित्यत्र तु विश्वऋषावभिधेयेऽपि संज्ञाभावात् नात्वमिति ज्ञेयम् / 2. राडितिनिर्देशेन पत्र राडितिरूपं भवति तत्रैव दी? नान्यत्रेति सूचयति / 3. आसुतिः-सुरा अस्यास्तीति, कृषिः अस्यास्तीति विग्रहवाक्यौ / 4. स्वामी चिह्नयते येन तत् स्वामिचिह्न तत् कर्णे स्यात् तदा दीर्घत्वमाप्नुयात् किंतु तद्भिन्नावयवादी स्यात् तर्हि न आत्वं भवति इति भावः / 5. नन्वत्र विग्रहणं व्यर्थम्, अन्यप्रत्ययान्तघटिते उपनद्ध इत्यादौ नह्यादेर्धातोरभावादेव दीर्घाप्रवृत्तेः क्विबन्तस्यैव नह्यादेरर्थतो लाभादित्याशङ्कायामाह--हहेति, सत्यमाशङ्कितम्, किन्तु तद्ग्रहणं एतत्सूत्रादन्यत्र धातुग्रहणे कृते तदादिविधिर्भवतीति नियमज्ञापनाय, तेनायस्कृतमित्यादी कृधातोरभावेऽपि कृधातुरादिर्यस्य तथाविधकृतादिशब्दानामपि ग्रहणात् अतःकृकमिकंसेत्यादिना सत्वं भवत्येव अन्यथाऽत्र न स्यात् किन्त्वयस्कृदित्यत्रैव स्यादिति समाधानाभिप्रायः /
Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310