Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 298
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 291 खाण्' (5 / 1 / 105) इति खप्रत्ययः एवं मेघान् करोतीति मेघंकरः ‘मेघर्त्तिभयाभयात् खः' (5 / 1 / 106) अनाढ्यो आढ्यो भवति आढ्यंभविष्णुः / 'नग्नपलितप्रियान्धस्थूलसुभगाढ्यतदंताच्च्व्यर्थेऽच्चेर्भुवःखिष्णुखुकञौ' (5 / 1128) एवं सुभगंभावुकः, अत्रानेनैव खुकञ् / तथाऽसुभगः सुभगः क्रियतेऽनेन सुभगंकरणं रूपं / ‘कृगः खनटकरणे' (5 / 1 / 129) इति खनट् / विहायसा गच्छतीति विहंगमः / 'नाम्नोगमः खड्डौच विहायसस्तु विहः' (5 / 1 / 131) इति विहायसो विहादेशः दिवा दिवसं आत्मानं मन्यते ज्ञमात्मानं मन्यते / क्ष्मामात्मानं मन्यते महांतमात्मानं मन्यते / सर्वत्र ‘कर्तुः खश्' (5 / 1 / 117) दिवादेः श्यः (3 / 4 / 72) महंमन्य इत्यत्र 'जातीयैकार्थे च्वेः' (3 / 2 / 70) इति महदग्रे डाप्रत्ययः / 'डित्यंत्यस्वरादेः' (2 / 1 / 114) ततः 'खित्यनव्ययारुषो मोन्तो हस्वश्च' (3 / 2 / 111) द्वयमपि कार्य क्रियते, काली मन्, कालीमात्मानं मन्यते कालिंमन्या / एवं हरिणिंमन्या / “कर्तुः खश्" (5 / 1 / 117) परत्वात् ह्रस्वेन पुंवद्भावो बाध्यते इति अक्षरबलात् अत्र ह्रस्वो मोंतश्च भवति न पुंवद्भावः, अरुं तुदतीति 'बहुविध्वरुस्तिलात्तुदः' (5 / 1 / 224) इत्यनेन खश् / खित्यन० (3 / 2 / 111) मोंतः नकाराग्रे 'संयोगस्यादौ स्कोर्लुक् (2 / 1 / 88) इत्यनेन सकारो लुप्यते / / 111 / / 'सत्यागदास्तोः कारे // 3 / 2 / 112 // सत्यादिभ्यः कारे उत्तरपदे मोन्तः स्यात् / सत्यङ्कारः / अगदङ्कारः / अस्तुङ्कारः // 112 // .. अ० सत्यं करोति सत्यस्य कार इति वा सत्यङ्कारः / एवं अगदङ्कारः / अस्तु इति निपातः क्रियाप्रतिरूपकोऽभ्युपगमे वर्त्तते // 112 // .. 'लोकम्पृणमध्यंदिनानभ्याशमित्यं // 3 // 2 // 113 // एते कृतपूर्वपदमान्ता निपात्यन्ते / लोकम्पृणः / मध्यन्दिनं अनभ्याशमित्यः-दूरात् परिहर्त्तव्यः / अनभ्याशेन इत्योऽनभ्याशमित्य इति वा दूरेण प्रायो न त्वंतिकेनेत्यर्थः // 113 // अ० लोकम्पृण० इति / "पृणत् प्रीणने" / पृण लोकपूर्वं लोकं पृणतीति / 'मूलविभुजादयः' (5 / 1 / 144) इति कः / पृणतीति पृणः 'नाम्युपान्त्यप्रीकृगृज्ञः कः' (5 / 1154) इति कः / ततो लोकस्य पृण लोकं पृणः, तथाऽनभ्याशं दूरमुच्यते / अनभ्याशं इत्यं गंतव्यमस्य अनभ्याशमित्यः / 'इरिक्गतिकम्पनयोः' / ईयते इत्यः / 'दृवृग्स्तुजुषेतिशासः (5 / 1 / 40) इत्यनेन क्यप् क्रियते, मध्यन्दिनस्य अथवा मध्यं च तदिनं च मध्यंदिनमिति // 113 // भ्राष्ट्राग्नेरिन्धे // 3 / 2 / 114 // भ्राष्ट्राग्निभ्यामिन्धे उत्तरपदे मोंतः स्यात् / भ्राष्ट्रस्येन्धः / भ्राष्ट्रमिन्धः अग्निमिन्धः // 11 // अ० त्रिइन्धैपि दीप्तौ / इन्ध् इन्धानं प्रयुङ्क्ते 'प्रयोक्तृव्यापारे णिग्' (3 / 4 / 20) इन्धनं इन्धः भावेऽल् / इन्ध्यतेऽनेनेति वा 'पुंनाम्नि घः' (5 / 3 / 13) घः / इन्धयतीति वा / 'लिहादिभ्यः' (5 / 15) इति अच् // 114 / / * अगिलाद गिलगिलगिलयोः // 3 / 2 / 115 // - गिलांतवर्जितात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे मोन्तः स्यात् / तिमिङ्गिलः अपत्यङ्गिला शिशुमारी / तिमिङ्गिलगिलः / अगिलादिति किम् ? तिमिङ्गिलं गिलतीति तिमिङ्गिलगिलः // 115 // अ० तिमिङ्गिल इति / तिमि गिलतीति 'मूलविभुजात्कः' (5 / 1 / 144) / एवं बालो राक्षसः / गिरो रकारस्य 1. अन्ये तु प्रीणातेर्णिगन्तस्याचि हस्वत्वं निपात्य लोकं प्रिणिः लोकप्रीणक; इत्यर्थः इत्युदाहरन्ति इति बृहद्वृत्तौ /

Loading...

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310