Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 304
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 297 ___मांसस्यानडते घनंते च पचावुत्तरपदे लुग् वा स्यात् / मांस्पचनं, मांसपचनम्, मांस्पचनी मांसपचनी, मांस्पाकः, मांसपाकः / अनड्यनीति किम् ? मांसपक्तिः, पचीति किम् ? मांसदाहः // 14 // अ० मांसस्य पचनं मांस्पचनम्, मांसपचनं, मांसस्य पाको मांस्पाकः, मांसपाकः, मांसदहनं / / 141 / / दिकशब्दात्तीरस्य तारः // 3 / 2 / 142 // दिक्शब्दात् परस्य तीरशब्दस्य तार इत्यादेशो वा स्यात् / दक्षिणतारम् दक्षिणतीरम्, उत्तरतारम् उत्तरतीरम्, पश्चिमतारम्, पश्चिमतीरम् / दिक्शब्दादिति किम् ? गङ्गातीरम् // 142 // ____ अ० दक्षिणस्या दिशस्तीरं, अथवा दक्षिणस्य देशस्य तीरम्, एवं उत्तरस्या दिशस्तीरम् उत्तरस्य देशस्य वा तीरम्, पूर्वस्या दिशः पूर्वस्य देशस्य वा तीरम्, स्त्रियां 'सर्वादयोऽस्यादौ' (3 / 2 / 61) इति पुंवद्भावः / पश्चिमस्य तीरं पश्चिमतारम्, स्त्रियां तु पश्चिमायास्तीरं पश्चिमातीरम्, पश्चिमातारम्, अत्र पुंवद्भावो न भवति सर्वादिशब्दाभावात् // 142 // . सहस्य सोऽन्यार्थे // 3 // 2 // 143 // अन्यार्थेऽन्यपदार्थे उत्तरपदे सहस्य स इत्यादेशो वा स्यात् / सपुत्रः आगतः सहपुत्रः / अन्यार्थे इति किम् ? सहकृत्वा, कथं सहकृत्वप्रियः, प्रियसहकृत्वा ? बहुव्रीहौ यदुत्तरपदं तस्मात् पूर्वः सहशब्दो नहीति न सादेशः // 143 // . ___इ० अन्यपदार्थे कोऽर्थः ? बहुव्रीहौ समासे, सह पुत्रेणागतः / एवं सशिष्यआगतः / सह लोम्ना वर्तते सलोमकाः, विद्यमानलोमक इत्यर्थः, सहलोमक इत्यपि, सहकृतवान् सहकृत्वा / 'सहराजभ्यां कृग् युधेः' (5 / 1 / 167) इत्यनेन क्वनिप्प्रत्ययः सिः, 'नि दीर्घः' (1 / 4 / 89) सहकृत्वन्शब्दः सहकृत्वा प्रियोऽस्य सहकृत्वप्रियः / प्रियः सहकृत्वाऽस्य प्रियसहकृत्वा उत्तरपदात् // 143 / / नाम्नि // 3 / 2 / 144 // योगारम्भाद्वेति निवृत्तम्, बहुव्रीहौ सहस्य सः स्यात्, नाम्नि-संज्ञायां / साश्वत्थं / सपलाशं एवंनाम वनम्, सरसा दूर्वा, अन्यार्थ इति किम् ? सहचरः कुरण्टकः / सहदेवः कुरुः / सहदेवा औषधिः // 144 // ___ अ० बहुव्रीहि / अन्यार्थे सह अश्वत्थेन वर्त्तते / सह पलाशेन वर्त्तते / एवं सशिंशपं नाम वनमित्यर्थः, सहचरतीति 'चरेष्टः' टः / सह दीव्यतीति 'लिहादिभ्यः' (5 / 1 / 50) अच्, सह जायते इति सहजन्या 'भव्यगेयजन्यरम्यापात्याप्लाव्यं न वा' (5 / 1 / 7) इति यप्रत्ययः / इति विज्ञेयम् // 144 / / अदृश्याधिके // 3 // 2 // 145 // अदृश्यः परोक्षम्, अधिकमधिरूढं तद्वाचिनोरुत्तरपदयोरन्यार्थे सहस्य स स्यात् / अदृश्ये, साग्निः कपोतः। सपिशाचा वात्या / अधिके, सद्रोणा खारी / समाषः कार्षापणः // 145 // - अ० 'सहस्य सोऽन्यार्थे' (3 / 2 / 143) इत्यनेनैव सिद्धे नित्यार्थं 'अदृश्याधिके' (3 / 2 / 145) इति सूत्रं विदधे, एवं सरासिका विद्युत् सकाकणीको माषः // 145 / / अकालेऽव्ययीभावे // 3 / 2 / 146 // 1. पूर्वः सहशब्दो नहीति शेषः /

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310