Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 306
________________ 299 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः दृग्दृशदृक्षे // 3 / 2 / 151 // दृग् दृश दृक्ष इत्युत्तरपदे समानस्य सादेशो भवति / सदृक् सदृशः सदृक्षः // 151 // अ० समाना दृश्, समान इव दृश्यते सदृक्, सदृशः, सदृक्षः, 'त्यदाद्यन्यसमानादुपमानाद्व्याप्ये दृशष्टक् सकौ च' (5 / 1 / 152) इति सूत्रेण किप् टक् सक् प्रत्ययाः / यत्र किप् तत्र सदृक् / यत्र टक् तत्र सदृशः / स्त्रियां तु सदृशी यत्र सक् तत्र सदृक्ष इति तथा टक् सक् युक्तः क्विप् ग्राह्यः / त्यदाद्यन्ये (5 / 1 / 152) त्यनेन विहितस्यैव क्किपो विधिः प्रवर्त्तते, सूत्रांतरविहिते क्विपि न विधिः / तेन दर्शनं दृक् 'क्रुत्सम्पदादिभ्यः क्विप्' (5 / 3 / 114) समाना दृक् इति वाक्यं समानदृक् / अत्र समानस्य न सादेशः // 151 / / अन्यत्यदादेराः // 3 / 2 / 152 // अन्यशब्दस्य त्यदादेश्वदृग्दृश दृक्षेषत्तरपदेषु आकारोऽन्तादेशः स्यात् / अन्यादृक्, अन्यादृशः अन्यादृक्षः। तादृक्, तादृशः, तादृक्षः, यादृक्, यादृशः, यादृक्षः / भवादृक्, भवादृशः, भवादृक्षः / युष्मादृक्, युष्मादृशः, युष्मादृक्षः, अस्मादृक् कथं, यावान् तावान्, एतावान् ? डावत्प्रत्यये भविष्यति // 152 // अ० अन्य इव दृश्यते, एवं स इव दृश्यते, एवं य इव दृश्यते, भवानिव दृश्यते, यूयमिव दृश्यते, वयमिव दृश्यते इति वाक्ये यथाक्रम-क्किप्, टक्, सक्, 'त्यदाद्यन्य०' इत्यनेन, यद तद् एतद् यत् परिमाणमस्य यावान्, तत् परिमाणमस्य (तावान् एतत् मरिमाणमस्य) एतावान् / 'यत्तदेतदो डावादिः' (7 / 1 / 149) इति सूत्रेण डावतुप्रत्ययः // 152 / / इदंकिमीत्कीः // 3 / 2 / 153 // दृगादिषूत्तरपदेषु इदम्शब्दः किम्शब्दश्च यथासंख्यमीकाररूपः कीकाररूपश्च भवति / ईदृक् ईदृशः ईदृक्षः। कीदृक् कीदृशः कीदृक्षः / कथं इयान् कियान् ? इदं किमो०' (7 / 1 / 148) इति सूत्रेण भविष्यति // 153 // __अ० इदम्शब्दस्य ईकारः किमश्च कीकारः अयमिव दृश्यते क इव दृश्यते, इदंमानमस्य इयान् किम्, किं प्रमाणं मानं वाऽस्य कियान्, 'इदं किमोऽतुरिय् किय् चास्य' (7 / 1 / 148) इति सूत्रेण अतुप्रत्ययः / इदम्शब्दस्य इय्, किमश्च किय् आदेशः // 153 / / / अनञः क्त्वो यप् // 3 / 2 / 154 // नवर्जितादव्ययात् पूर्वपदाद् यत् परमुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यप् इत्यादेशः स्यात् / प्रकृत्य। उच्चैःकृत्य / अनञ इति किम् ? अकृत्वा परमकृत्वा // 154 // अ० अनत्र इति नञसदृशं अव्ययं गृह्यते इति, अकृत्वा इत्यत्र नञः परात् परमकृत्वा इत्यत्र च अनव्ययपदात् परतः किप् स्थाने न यप् इत्यर्थः / उत्तरपदस्येत्येव अलंकृत्वा // 154 / / पृषोदरादयः // 3 / 2 / 155 // पृषोदर इत्येवं प्रकाराः शब्दा विहितलोपागमवर्णविकाराः शिष्टैः प्रयुज्यमानाः साधवो भवन्ति / पृषदुदरं उदरे वाऽस्य (पृषोदरः) अथवा पृषत् उदरं पृषोदरं, अत्र तकारलोपो निपात्यते / जीवनस्य मूतः पुटबंधो जीमूतः, अत्र निपातनात् वनस्य लोपः, वारिणो वाहको बलाहकः, अत्र पूर्वपदस्य बा आदेशः उत्तरपदादेश्व लकार आदेशः / मह्यां रौति मयूरः, मह्यां शेते महिषः, पिशितमन्नाति पिशाचः, शवानां शयनं श्मशानं,

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310