Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 307
________________ 'कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते अत्र पूर्वपदस्य श्मादेशः उत्तरपदस्य च शान आदेशः / ब्रुवन्तोऽस्यां सीदंति वृसी, अत्र उट्प्रत्ययः पूर्वपदस्य वृभावः, ऊों खं बिलं वास्य उदूखलं उलूखलं वा, पूर्वपदस्य उदूभाव उलूभावश्च उत्तरपदस्य खलादेशः, तथा दिवि द्यौर्वा ओक एषां दिवौकसः अत्राकारागमः / अश्व इव तिष्ठत्यश्वत्थः / कपिरिव तिष्ठति कपयोऽस्मिंस्तिष्ठन्तीति वा कपित्थः / मुहुः स्वनं लाति मुहुर्मुहुर्लसतीति वा मुसलं / ऊभे कर्णावस्य उलूकः, आशु अस्य विषमस्ति आशीविषः / कौ जीर्यति कुञ्जरः / बलं वर्द्धयति बलीवर्दः / बिलं दारतीति बिडालः। मृदमालीयते डः मृणालः / असृगालीयते असृग्गिलति वा सृगालः / पुरो दाश्यते पुरोडाशः / अश्वस्याम्बा वडवा अत्रावस्याशो लोपः ड् चान्तः / अम्बाशब्दे च मो लोपः / कुलटा / अवटः / हिनस्तीति सिंहः सकारहकारयोर्विपर्ययः / भ्रमन् रौति डप्रत्यये नलोपे च भ्रमरः / एवंप्रकाराः शिष्टप्रयुक्ताः पृषोदरादयः बहुवचनमाकृतिगणार्थं तेन मुहूर्तादयोऽपि द्रष्टव्याः // 'वर्णागमो वर्णविपर्ययश्च द्वौ वा परौ वर्णविकारनाशौ / धातोस्तदर्थातिशयेन योगस्तदुच्यते पंचविधं निरुक्तम्' // 15 // ___अ० अत्र पूर्वपदस्य ब आदेश उत्तरपदादेश्च लकार आदेशः, मह्यां रौति मयूरः, मह्यां शेते महिषः, पिशितमश्नाति पिशाचः, शवानां शयनं श्मशानं, अत्रापि शितशब्दस्यापि श इत्यादेशः / 'अश् धातोः' शकारस्य च चकार आदेशः। अच्प्रत्ययः / 'आइ पूर्वः ध्यैचिंतायां' आध्यायन्त्यर्थिन इति आद्यः [आढ्य] / 'स्थादिभ्यः कः' (5 / 3 / 82) इति कप्रत्ययः, निपातनात् ध्यस्य द्य [य] आदेशः / तथा मयूर इत्यत्र रौतेः परोऽच् अंतलोपो महीशब्दस्य मयूआदेशः, महिष इत्यत्र क्वचित्डः पूर्वपदस्य हस्वत्वं शकारस्य षकारः, पिशाच इत्यत्र पिशितस्यापि शधातौ शकारस्यं च आदेशः / ब्रुवत्। सद् ब्रुवन्तोऽत्र सीदन्ति इति वृसी वृषी वा, ऋषिपीठ वृसी उच्यते, निपातनात् डट् प्रत्ययः / ततो डी तितेः सकारस्य तकारः 'स्थापास्नात्रः कः' (5 / 1 / 142) इति कः मुहुशब्दस्य शुभावः स्वनशब्दे सभावश्च पक्षांतरे लसयोर्विपर्ययश्च मेहनस्य मेहनखम् तस्य माला मेखला अत्र मेहनखशब्दे हनशब्दस्य मालाशब्दे च माशब्दस्य लोपः इत्यपि ज्ञेयं / उलूक इत्यत्र अर्ध्वशब्दस्य उलूभावः / कर्णशब्दस्य ऊकादेशः अत्र कुशब्दात् लोपः / बलशब्दस्य ईकारोंतः वर्द्धधकारस्य च दकारः बिलशब्दस्य लकारलोपः उत्तरपदस्य च डालः / मृदो दकारस्य णकारः डप्रत्ययः। आद्यकारस्य लोपः द्वितीयपक्षेऽसृज आद्यंतलोपः अत्रोत्तरपदादेर्डकारः अटतीति अचं अटा / कुलानामटा कुलटा। तथा अव अवाक अप॒त्यस्मिन्निति बाहुलकात् 'पुंनाम्नीति' (5 / 3 / 110) घः / अवट इति सिद्धम् कुलटा निपातनादटोऽकारलोपः अन्येपि इति शेषः कार्यः मयूरमहिषादिशब्दानामुणादौ व्युत्पादितानामपि इह पुनर्यद् व्युत्पादिनां [दन] तदनेकधा शब्दव्युत्पत्तिरिति ज्ञापनार्थं / इयमवचूरिः ‘पृषोदरादय' इत्यस्याग्रे ज्ञातव्याः / मुहुरियर्त्ति इति मुहूर्तं अथवा मुहुरिच्छति स्म मुहूर्तं ‘गत्यर्थे' (5 / 1 / 11) ति क्तः शेषं निपातनात् / / सप्रसिद्धश्चासावर्थश्च तदर्थः शब्दलक्षणः, तदर्थस्यातिशयो मधुरत्वादिः तदातिशयेन योगः संबंधः मयूर इत्यत्र भावना // 155 / / वावाप्योस्तनिक्रीधागनहोर्वपी // 3 // 2 // 156 // अवोपसर्गस्य तनिक्रीणात्योः परयोः अपिशब्दस्य धाग्नहोः परयोर्यथासंख्यं व पि इत्यादेशौ-वा भवतः। वतंसः, अवतंसः / वक्रयः, अवक्रयः / पिहितम्, अपिहितम् / पिधानम्, अपिधानम् / पिदधाति, अपिदधाति / पिनद्धम्, अपिनद्धम् / पृषोदरादिप्रपंचोऽयम्, तेन शिष्टप्रयोगोऽनुसरणीयः, तृतीयस्याध्यायस्य द्वितीयपादः समाप्तः // 156 //

Loading...

Page Navigation
1 ... 305 306 307 308 309 310