Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
________________ 290 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलङ्कृते उदं दर्शयति एते त्रयोऽपि समुद्रविशेषाः // 107 / / ते लुग्वा // 3 / 2 / 108 // नाम्नि ते पूर्वोत्तरपदे लुग् वा स्यातां / देवदत्तः-देवः, दत्तः / सत्यभामा-सत्या, भामा (शब्दसा. म्येऽपि प्रकरणादेरर्थविशेषनिश्चयः) ॥छ।१०८॥ अ० नाम्नि सञ्ज्ञाविषये, ते लुग्वेति वृत्तौ पूर्वोत्तरपदे इति कोर्थः ? चतुरक्षरशब्दस्य पञ्चाक्षरादिशब्दस्य वा पूर्वपदं उत्तरपदं च विकल्पेन लुप्यते, इत्यर्थः // सागरचन्द्रः, सागरः चन्द्र इति वा, ननु ते लुग्वेत्यनेन पूर्वपदस्य उत्तरपदस्य लुग्वा भवतीत्युक्ते यः समुदायमनुवर्तते देवदत्तादिशब्दः स एकदेशेन देव इत्युच्यमानो देवदत्तत्रिदशयोः समानार्थः सन् उभयमध्यात्कमर्थं प्रत्याययति इत्याह सूरिः शब्दसाम्येपि प्रस्तावादर्थविशेषा ज्ञायन्ते इत्यर्थः / / 108 // यन्तरनवर्णोपसर्गादप ईप् // 3 / 2 / 109 // द्वि अन्तर् इत्येताभ्यामवर्णातवोंपसर्गेभ्यश्च परस्य अप इत्युत्तरपदस्य ईप् इत्यादेशः स्यात् / द्वीपं / अन्तरीपं / नीपं / प्रतीपं / उपसर्गादिति किम् ? स्वापः / अत्यापः / अनवर्णेति किम् ? प्रापं, परापम ॥छ।१०९॥ __अ० न विद्यतेऽवर्णो यत्र सोऽनवर्णः, अनवर्णश्चासौ उपसर्गश्च, द्विश्च अन्तश्च, अनवर्णोपसर्गश्च द्वयन्तरनवर्णोपसर्गस्तस्मात् / / द्विधा गता आपोऽस्मिन् इति द्विपम् / अन्तर्गता आपोऽस्मिन्निति अन्तरीपम् / निवृत्ता आपोऽस्मिन्निति नीपम् / अन्यावृत्ता आपोऽस्मिन्निति प्रतीपं / संगता आपोऽस्मिन्निति समीपं / अनुगता आपोऽस्मिन्निति अनूपं / विगता आपोऽस्मिन्निति वीपं इति उदाहरणावली / अत्र सर्वत्र 'ऋक्पः पथ्यपोऽत्' (7 / 3 / 76) इति सूत्रेण अकारः समासान्तः, पश्चात् ईप् आदेशः / शोभना आपः स्वापः / पूजिता आप अत्यापः / स्वती पूजायां वर्तेते इति उपसर्गसञ्ज्ञो न भवतः / अत एवात्र समासांतोऽपि न भवति / / 109 / / अनोर्देशे उप // 3 / 2 / 110 // अनोः परस्य अपो देशेऽर्थे उप इत्यादेशः स्यात् / अनूपो देशः / देश इति किम् ? अन्वीपं वनं / 'कथं सूपः, कूपः, यूपः ? पृषोदरादित्वात् ॥छ।११०॥ ___ अ० प्रकृष्टा आपो यत्र परा प्रकृष्टा आपो यत्र तत् प्रापं परापं तडागं 'ऋक्तः पथ्यपोऽत्' (7 / 3 / 76) इति अः, अनुगता आपोऽस्मिन् स अनूपः / 'ऋक्तः पथ्ये'ति अकारे अनूपो देशः तत् प्रदेशः / अनुगता आपोऽस्मिन् // 110 // खित्यनव्ययारुषो मोन्तो ह्रस्वश्च // 3 / 2 / 111 // अनन्ययस्यार्थात् स्वरान्तस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोन्तः स्यात्, यथासम्भवं ह्रस्वश्चान्तादेशः। ज्ञञ्मन्यः / क्ष्ममन्यः / महंमन्यः / क्षेमंकरः / आढ्यम्भविष्णुः / सुभगङ्करणं / विहङ्गमः / कालिम्मन्या। अरुन्तुदः / अनव्ययेति किम् ? दिवामन्या रात्रिः। अरुःशब्दोपादानादनव्ययस्य व्यंजनांतस्य न मौतः गीमन्यः ॥छ।।११।। ___ अ० अरुर्ग्रहणादनव्ययस्य शब्दस्य स्वरान्तत्वं गृह्यते / क्षेमंकर इति क्षेमं करोतीति / क्षेमप्रियमद्रभद्रात् 1. ननु सूपकूपादौ अनोः परत्वाभावाद्देशार्थाभावाच कथमाप उप इत्यादेश इत्यत्रोच्यते पृषोदरादित्वादिति /
Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310