Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
________________ 288 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवत्रिभ्यामलते इति सूत्रेण यप्रत्ययः,-पादयोर्भवाः पद्याः ‘दिगादिदेहांशाद्यः' यः, पादाभ्यां हितं पद्यं-घृतं 'प्राण्यंगरथखलतिले ति यः // 16 // ऋचः 'इशसि // 3 // 2 // 97 // ऋचः सम्बन्धिनः पादस्य शकारादौ शस्प्रत्यये पद् स्यात् / पच्छो गायत्री शंसति ॥छ॥९७॥ अ० पादं पादं गायत्र्याः शंसति इति वाक्ये 'संख्यैकार्थाद्वीप्सायां शस्' (7 / 2 / 151) इति सूत्रेण शस् / / 97|| शब्दनिष्कघोषमिश्रे वा // 3 / 2 / 98 // ___ शब्दादिषुत्तरपदेषु पादस्य पद् स्याद्वा / पच्छब्द पादशब्दः / पनिष्कः पादनिष्कः / पद्घोषः पादघोषः। पन्मिश्रः पादमिश्रः ॥छ।।९८॥ अ० पादयोः शब्दः, पादयोः निष्कः, पादाभ्यां मिश्रः // 98 / / नस् नासिकायास्तः क्षुद्रे // 3 / 2 / 99 // तस्प्रत्यये क्षुद्रे चोत्तरपदे नासिकाशब्दस्य नस् स्यात् / नस्तः / नःक्षुद्रः ॥छ।।९९॥ अ० नासिकायाः नासिकायां वा नस्तः / 'अहीरुहोऽपादाने' (7 / 2 / 88) अथवा 'आद्यादिभ्यः' (7 / 2 / 84) तस् / / 99 / / __ येऽवणे // 3 // 2 // 10 // ये प्रत्यये परे अवर्णादन्यत्रार्थे नासिकाया नस् स्यात् / नस्यं / य इति किं ? नासिक्यं नगरं / अवर्ण इति किं ? नासिक्यो वर्णः ॥छ॥१०॥ ___ अ० नासिकायै हितं 'प्राण्यंगरथ्येति' (7 / 1 / 37) यः / नासिकायां भवं वा दिगादि० (6 / 3 / 124) (यः) नस्यं। नासिक्यं नगरमित्यत्र चातुरर्थिकः 'सुपन्ध्यादेर्व्यः' / (6 / 2 / 84) इति (ज्य) प्रत्ययः / निरनुबंधग्रहणे च न सानुबन्धकस्य ग्रहणं भवति इति वचनात् ञ्ये सानुबंधे सति न नस्' आदेशः // 100 // .. शिरसः शीर्षन् // 3 / 2 / 101 // शिरस्शब्दस्य शीर्षन् ये परे स्यात् / शीर्षण्यः / स्वरः शीर्षण्यं तैलं ॥छ॥१०॥ अ० नासिकायां भवः शिरसि भवः 'दिगादि०' (6 / 3 / 124) यः / शिरसे हितं 'प्राण्यंग०' यः / निरनुबंधेति न्यायात् इहापि शिरस्शब्दस्य न शीर्षन् यथा शिर इच्छति शिरस्यति क्यन् 'शिरसः शीर्षन्' (3 / 2 / 101) अत्रेयमवचूरिः // 101 // केशे वा // 3 / 2 / 102 // केशविषये यप्रत्यये परे शिरसो वा शीर्षन् स्यात् / शीर्षण्याः शिरस्याः केशाः ॥छ॥१०२॥ अ० शिरसि भवाः 'दिगादिदेहां०' (6 / 3 / 124) यः / / 102 / / 1. अत्र द्विशकारपाठात् विभक्तिशसि पादस्य पदादेशो न भवति यथा ऋचः पादान् पश्य / 2. वाक्यगम्यस्य गायत्र्याः कर्मत्वं पादसंबंधस्य वृत्ती निवृत्तत्वात् स्वाभाविकं शंसनक्रियापेक्षं भवति इति ज्ञेयम् / 3. पादयोः शब्दः पच्छब्दः पादयोः निष्क इत्येवंरीत्या विग्रहः कार्यः / 4. इत्येवं नःक्षुद्रः इत्यत्रापि अयमेव विग्रहो ज्ञेयः / 5. अयं भावः अत्र-मूलसूत्रे केवलं यप्रत्ययः उक्तः तेन सहितोक्ते यप्रत्यये परे सत्यपि नासिकायाः न नसादेशो जात इति भावः /
Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310