Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
________________ 282 कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिते मध्यमवृत्त्यवचूरिभ्यामलङ्कृते नाम्नि // 3 / 2 / 75 // अष्टन उत्तरपदे परे नाम्नि सञ्ज्ञायां दीर्घः स्यात् / अष्टौ पदान्यत्र अष्टापदः-कैलासः, अष्टापदं स्वर्ण। नाम्नीति किं ? अष्टदंष्ट्रः // 7 // अ० 'अष्टसु लोहेषु पदं प्रतिष्ठा यस्य / / 7 / / __ कोटरमिश्रकसिध्रकपुरगसारिकस्य वणे // 3 // 276 // कोटरादीनां कृतणत्वे वनशब्दे उत्तरपदे दीर्घः स्यात् नाम्नि / कोटरावणं / मिश्रकावणं / सिध्रकावणं / पुरगावणं / सारिकावणं / 'पूर्वपदस्थे०' (2 / 3 / 64) त्यनेन णत्वे सिद्धे कृतणत्वस्य वणशब्दस्य निर्देशो नियमार्थः / तेन 'पूर्वपदस्थानाम्न्यग' इत्यनेन च नस्य णत्वमाकारसंनियोगे एव भवति / ततश्च कुबेरवनं, शतधारवनमित्यादौ सञ्ज्ञायामपि न णत्वं ॥छ॥७६॥ अ० कोटरावणं इत्यादिषु नकारस्य णकारो भवति / कुबेरवनमित्यादिषु नकारस्य न णकारः, कोऽयं विशेषः ? उच्यते, 'कोटरेति (3 / 2 / 76) सूत्रे वण इति निर्देशो नियमार्थः कृतः / तेन कोटरादीनां आकारविधिः (यत्र) तत्रैव वनस्य णकारः / कुबेरवनमित्यादिषु आकाराभावे णकारोऽपि न भवति // 76 / / __ अञ्जानादीनां गिरौ // 3 // 2 // 77 // ____ अञ्जनादीनां गिरावुत्तरपदे दीर्घोऽन्तादेशः स्यात् नाम्नि / अञ्जनागिरिः / अञ्जनादीनामिति किं ? कृ. ष्णगिरिः / नाम्नीत्येव ? अञ्जनगिरिः / बहुवचनमाकृतिगणार्थम् ॥छ॥७७॥ अनजिरादिबहुस्वरशरादीनां मतौ // 3 // 2 // 78 // अजिरादिवर्जबहुस्वराणां शरादीनां च मतौ प्रत्यये दीर्घः स्यात् नाम्नि / बहुस्वरा-अमरावतीत्यादि / शरादि शरावतीत्यादि / बहुवचनमाकृतिगणार्थम् / तेन ऋषीवती, मृगावती, पद्मावती, वातावती, भोगावतीत्यादि सिद्धं / बहुस्वशरादीनामिति किम् ? मधुमती, व्रीहिमती / बहुस्वरस्यानजिरादि विशेषणं किम् ? अजिरवती / नाम्नीत्येव ? वलयवती कन्या ॥छ।७८॥ ___ अ० उदुंबरावती, मशकावती, वीरणावती, पुष्करावती, इति बहुस्वरविशेषोदाहरणावली / अथ शरादि, शरावतीवंशावती, कुशावती, (शुचीमती) धूमावती, अहीवती, कपीवती, मुनीवती, मणीवती, एषु उदुम्बरा सन्त्यस्यां नद्यां, एवं मशकाः [सन्त्यस्यां] वीरणा संत्यस्यामित्यादि, चतुरर्थे 'नद्यां मतुः' (6 / 2 / 72) इति सूत्रेण मत्-प्रत्ययः, 'नाम्नि' (2 / 1 / 95) इति सूत्रेण मतोर्वत्त्वं / शुचीमती अत्र तु 'नोादिभ्यः' (2 / 1 / 99) इत्यनेन मतोर्वत्त्वनिषेधः / अमराः संत्यत्र तदस्यास्तीति मतुः / 'वार्दावान्नामगिरिः वेटावान्नामगिरिः अत्रापि तदस्येति मतुः / शरवंशकुशशुचिधूमअहिकपिमुनिमणिवार्दवेट इति शरादि, अजिरादिगण उदाहरणावलीयं ज्ञातव्या-तथाहि-अजिरवती, खदिरवती, खजुरवती, स्थविरवती, पुलिनवती, मलयवती, हंसकारंडवती, चक्रवाकवती, अलङ्कारवती, शशाङ्कवती, हिरण्यवती इति अजिरादिराकृतिगणः / / अजिरादिगणे शब्दा 10 दश, 'शरवती तूणा इत्यपि // 78 / / ऋषौ विश्वस्य मित्रे // 3 // 2 // 79 // ऋषावर्थे मित्रे उत्तरपदे विश्वशब्दस्य नाम्नि दीर्घोऽतः स्यात् / विश्वामित्रो नामर्षिः / ऋषाविति किं ? 1. स्वर्णपक्षेऽयं विग्रहः / 2. वार्दा मेघाः संत्यत्र वेटा वृक्षाः सन्त्यत्रेति विग्रहः 3. इदं प्रत्युदाहरणम् /
Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310