Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay
View full book text ________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः 281 मन्यः / खशि डा ह्रस्वत्वे मोन्तः / जातीयैकार्थ इति किम् ? प्रकृष्टो महान् महत्तरः / महत्याः पुत्रो भवतीपुत्रः / अच्वेरिति किम् ? अमहान् महान् सम्पन्नो महद्भूतश्चंद्रमाः / अमहती महती संपन्ना महद्भूता कन्या ॥छ।।७०॥ . ___ अ० महत्शब्दस्य 1 महान् प्रकारोऽस्य महाजातीयः / महती प्रकाराऽस्य महाजातीया / “मन्याण्णिन्' / (5 / 1 / 116) महंमन्यः अत्र महत् मनुधातुः / महान्तमात्मानं मन्यते महंमन्यः / 'कर्तुःखश्' (5 / 1 / 117) इति सूत्रेण खश् / 'दिवादेःश्यः' (3 / 4 / 72) जातीयैकार्थे० इति डा महा इति जातं / 'खित्यनव्ययारुषो मोन्तो हस्वश्च' (3 / 2 / 111) इत्यनेन महा इत्यस्य ह्रस्वः मोंतश्च महंमन्य इति सिद्धं // 70 // न पुंवनिषेधे // 3 // 2 // 7 // महतः पुंवनिषेधविषये उत्तरपदे परे डा न स्यात् / महतीप्रियः ॥छ॥७१॥ अ० महती प्रियाऽस्य महतीप्रियः / 'नाप् प्रियादौ' (3 / 2 / 53) इति पुंवनिषेधः // 71 / / - इच्यस्वरे दीर्घ आच्च // 3 // 2 // 72 // इच् प्रत्ययान्तेऽस्वरादावुत्तरपदे परे पूर्वपदस्य दीर्घ आकारश्चान्तादेशः स्यात् / बाहूबाहवि, बाहाबाहवि। केशाकेशि। मुष्टीमुष्टि / मुष्टामुष्टि / दण्डादण्डि / दीर्घत्वात्वयोरकारान्तादन्यत्र विशेषः / दीर्घसाहचर्यादात्वमपि स्वरान्तानामेव भवति / तेनेह न स्यात्, दोर्दोषि / अस्वर इति किम् ? अस्यसि // 72 // __अ० यत्र पूर्वपदं नाम्यन्तं / तत्र दीर्घ आकारश्च इति प्रयोगद्वयं / यथा मुष्टीमुष्टि / मुष्टामुष्टि / एवं यष्टी० यष्टा-यष्टि / बाहूबाहवि / बाहाबाहवि // यत्र पूर्वपदं अवर्णान्तं तत्र आकार एव इति एक एव प्रयोगः, यथा केशा-केशि / दण्डादण्डि, इति विशेषः आकारान्तत्वे // 72 / / . हविष्यष्टनः कपाले // 3 / 2 / 73 // हविष्यर्थे कपाले उत्तरपदेऽष्टनो दीर्घोऽन्तादेशः स्यात् / अष्टाकपालं हविः // 73 // अ० अष्टसु कपालेषु संस्कृतं अष्टाकपालं हविः / 'संस्कृते' (6 / 4 / 3) इत्यनेन इकण्, 'द्विगोरनपत्ये यस्वरादेर्लुबद्विः' / (6 / 1 / 24) इत्यनेन इकण् लुप्यते // 73 // गवि युक्ते // 3 / 2 / 74 // युक्तेऽर्थे गवि उत्तरपदेऽष्टनो दीर्घोऽन्तः स्यात् / अष्टागवं शकटं / गवीति किम् ? अष्टतुरगो रथः / युक्त इति किम् ? अष्टगवं विप्रधनं / अष्टगुश्चैत्रः // 7 // ___ अ० अष्टौ गावो युक्ता यस्मिन् शकटे इति अष्टागवं शकटं ‘गोस्तत्पुरुषात्' (7 / 3 / 105) इति सूत्रेण अट्समासान्तः। दीर्घविधानबलात् युक्तार्थसम्प्रत्ययाद् गतार्थत्वात् युक्तशब्दस्य निवृत्तिर्भवति / अथवा समाहारे द्विगुः कार्यः, तत्र साहचर्यादुपचारादष्टगवेनं युक्तं शकटं अष्टागवमुच्यते / / अष्टतुरगो रथः, अत्र अष्टानां तुरगाणां समाहारः अष्टतुरगं, अष्टतुरगमत्रास्ति इति वाक्ये 'अभ्रादिभ्यः' (7 / 2 / 46) इति अप्रत्ययः / यदीदं क्रियते तदा द्वयंगविकलता स्यात् / तथात्र गवीति नास्ति तथा युक्तत्वमपि नास्तीति / अष्टानां गवानां समाहारोऽष्टगवं, अष्ट गावो यस्य / / 74 / / 1. सूत्रमिदं महामानीत्यत्र ज्ञेयम् / 2. अष्टौ तुरगा युक्ता यस्मिन् स अष्टतुरगो रथ इति विग्रहः कार्यः, तथा च युक्तार्थसद्भावेऽपि गोशब्दाभावान्न दीर्घोऽन्तो भवति, समाहारसमासे तु गोशब्दयुक्तार्थयोरुभयोरभावावयङ्गवैकल्येन प्रत्युदाहरणासङ्गतिः स्यादिति /
Loading... Page Navigation 1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310