Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 292
________________ 285 श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य द्वितीयः पादः / दस्ति // 3 // 2 // 8 // , दा इत्यस्य यस्तकारादिरादेशस्तस्मिन् परे 'नाम्यन्तोपसर्गस्य दीर्घः स्यात् / नीतं, वीत्तं, परीत्तवान्। द इति किं ? वितीर्ण, तीति किं ? 'निविस्वन्ववात्' (4 / 4.8) इति सूत्रेणा दा स्थाने तः सुदत्तः ॥छ।।८८॥ - अ० दाघातुः निविपूर्वः, निदीयते स्म विदीयते स्म / 'क्तक्तवतु' (5 / 1 / 174) कोऽप्रयोगी तः तिष्ठति 'निविस्वन्ववात्' (4 / 4 / 8) इति सूत्रेण दास्थाने त्त इत्यादेशो वा परीत्तं इत्यत्र परि पूर्वो दा परिददाति स्म क्तवतु / 'स्वरादुपसर्गादस्ति कित्यधः' (4 / 4 / 9) इति सूत्रेण दास्थाने त्तादेशश्च / एषु त्रिषु उदाहरणेषु 'धुटो धुटि स्वे वा' (1 / 3 / 48) इत्यनेन विकल्पेन मध्यमतकारस्य लोपः, तत्र नीतं वीतं परीतं इति, यत्र तु तः न लुप्यते / तत्र नीत्तं वीत्तं परीत्तवान् इति भवति // 88 / / . अपील्वादेर्वहे // 3 / 2 / 89 // पील्यादिवर्जितस्य नाम्यन्तशब्दस्य वहे उत्तरपदे परे दीर्घः स्यात् / ऋषीवहं, मुनीवहं, कपीवहं एवं नामानि नगराणि, घांते तु वहे-ऋषीवहः / अपील्वादेरिति किं ? पीलुवहः दारुवहं ॥छ।।८९॥ अ० वहतीति वहं 'अच्' (5 / 1 / 49) इति अच् / ऋषीणां वहं ऋषीवहं, एवं मुनीवहं इत्यादि, मुनीवहः, कपीवहः, चारुवहं / / 8 / / शुनः // 3 / 2 / 90 // श्वन् शब्दस्योत्तरपदे परे दीर्घोतः स्यात् / श्वादंतः, एवं श्वादंष्ट्रा, श्वावराहं / बहुलाधिकारात् कचिदी? वा, श्वापुच्छं, कचिद् विषयांतरे, श्वापदं व्याघ्रादिः, श्वपदं कचिन दीर्घः, श्वमुखः ॥छ॥९०॥ अ० शुनःपदमिव पदमस्य इति श्वापदं, शुनःपदं / श्ववन्मुखमस्य // 90 // एकादश षोडश षोडत् षोढा षड्ढा // 3 // 29 // एकादयः शब्दा दशादिषूत्तरपदादिषु कृतदीर्घत्वादयो निपात्यते / एकादश षोडश षोडन् षोडंती। स्त्रियां तु 'षोडती षोढा षड्ढा ॥छ॥९१॥ अ० एकादश इत्यादि / एक दशन् / एकोत्तरा दश / अथवा एकं च दश च वा एकादश / अत्र निपातनात् एकशब्दस्यान्ते दीर्घः एकादशन् / षडुत्तरा दश षट् च दश च वा षोडश, अत्र षषोऽन्तस्य उत्वं / उत्तरपददकारस्य डत्वं / / षड् दन्ता अस्य षोडन्, अत्र दन्तस्य दतृ आदेशः, दस्य च डत्वं / 'सिः, औ, जस्' 'ऋदुदितः' (1 / 4 / 70) इत्यनेन नोन्तः, ‘पदान्ते' (2 / 1 / 64) इत्यनेन अन्त्यतकारस्य लोपः / षोडन् षोडन्तौ षोडन्तः / तथा षड्भिः प्रकारै षोढा षड्ढा ‘संख्याया धा' (7 / 2 / 104) इति सूत्रेण धा, निपातनात्, वर्षातस्य उत्वं वा षोढा इति सिद्धं / धा इत्यस्य नित्यं ढत्वं / अन्यत्र 'धुटस्तृतीय' (2 / 1176) इति षस्य डत्वं // 11 // द्वित्र्यष्टानां द्वात्रयोऽष्टाः प्राक् शतादनशीतिबहुव्रीहौ // 3 / 2 / 92 // द्वि त्रि अष्टशब्दानां यथासङ्ख्यं द्वा त्रयस् अष्टा इत्यादेशाः प्राक् शतात् सङ्ख्यायामुत्तरपदे भवन्ति, 1. प्रत्तमित्यत्र नाम्यंतत्वाभावात् दीर्घत्वाभावः / 2. शुनो दन्तः श्वादन्तः, एवं शुनो दंष्ट्रा इत्यादि विग्रहः कार्यः / 3. अन्ये तु दत्रादेशे कृते षोडनिति शब्दान्तरं नकारान्तं राजन्शब्दवनिपातयन्ति, ततश्च षोडानमिच्छतीति क्यनि नकारलोपे ईत्वे च षोडीयतीति सिध्यतीति / . मन्यन्ते इति बृहद्वृत्तौ / 4. द्वित्र्यष्टानामेवोक्तत्वात् पञ्चदशेत्यत्र दीर्घत्वं न भवति /

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310