Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

Previous | Next

Page 266
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः 259 अ० दन्तानां राजा इति वाक्ये राजदन्त इति प्रयोगः / अत्र षष्ठीति सूत्रे प्रथमान्तं पदम् / 'प्रथमोक्तं प्राक्' (3 / 1 / 148) इति सूत्रेण प्रथमान्तं पूर्वं निपततीति दन्तशब्दस्य पूर्वनिपाते प्राप्ते राजशब्दस्य, राजदन्तादिगणबलादनेन ' पूर्वनिपातः सिद्धः / एवं सर्वत्र भावना / लिप्तवासितम्, सिक्तसंसृष्टम्, भृष्टलुञ्चितम्, नग्नमुषितमित्यादिषु 'पूर्वकालैकसर्व' 0 (3 / 1 / 97) इत्यादिना वासितादिशब्दानां 'प्रथमोक्तं प्राक्' इति पूर्वनिपाते प्राप्ते राजदन्तादिबलाल्लितसिक्तभृष्टनग्नानां पूर्वनिपातः, अधमर्ण उत्तमर्ण इत्यत्र सप्तमीति प्रथमोक्तत्वेन ऋणस्य पूर्वनिपाते प्राप्ते 'राज०' अनेन पूर्वनिपातः / उलूखलमुशलेत्यत्राल्पस्वरत्वात् पूर्वं मुशलः पश्चादुलूखलस्य निपातः परमनेन उलूखलस्य पूर्वनिपातः / दारार्थं दारार्थौ अत्र तु वक्ष्यमाणलघ्वक्षरासखीत्यादिसूत्रेण स्वराद्यदन्तत्वादर्थशब्दस्य पूर्वनिपाते प्राप्ते राजदन्तादिगणपाठबलात् दारशब्दस्य पूर्वनिपातो भवति / दारजारौ जारदारौ इति अनियमे सति पूर्वनिपातस्याऽनिश्चयादनेन दारः पूर्वं निपात्यते / ‘राजदन्तादिषु' अत्र बहुवचनमाकृतिगणार्थम्, तेन क्वचिद्विकल्पः पुरुषोत्तमः उत्तमपुरुषः, मध्यगृहं गृहमध्यम्, अधरबिम्बं बिम्बाधरः, ओष्ठबिम्बं बिम्बोष्ठ इत्यादि उदाहरणावली सिद्धा / इयमवचूरिः उमामहेश्वरौ इत्यस्याग्रे ज्ञातव्या / अधरो बिम्बमिव अधरबिम्बः, ओष्ठो बिम्बमिव ओष्ठबिम्बः 'उपमेयं व्याघ्राद्यैः०' (3 / 1 / 102) इति समासः // 149 // _ विशेषणसर्वादिसङ्ख्यं बहुव्रीहौ // 3 // 1 // 150 // विशेषणवाचि नाम सर्वादि नाम सङ्ग्यावाचि नाम बहुव्रीही पूर्व निपतति / चित्रगुः / सर्वादिनाम, सर्वशुक्लः, सर्वसारः सर्वगुरुः / संख्या, द्वौ कृष्णौ गुणावस्य द्विकृष्णः, चतुर्हस्वः, पञ्चदीर्घः / बहुव्रीहाविति किम् ? उपसर्वम् // 150 // . . . . अ० 'विशेषणे ति सूत्रेऽयं विशेषो ज्ञेयः / षडुनतः सप्तरक्तः अत्र उन्नतरक्तशब्दौ न क्तान्तौ, अपि तु गुणशब्दो, तेन स्पर्द्ध सति क्तलक्षणो न पूर्वनिपातः / यथा त्र्यन्यः, द्वियुष्मत्कः द्वौ युवां यस्येति विग्रहः / तथा 'प्रथमोक्तं' 0 (3 / 1 / 148) इत्यनेनानियमे प्राप्ते नियमार्थमयं योगः / सर्वादिसङ्खचयोर्विशेषणत्वेऽपि शब्दपरस्पर्धार्थं इदं विशेषणेति पृथग्वचनं कृतमिति भावः // 150 / / क्ताः // 3 / 1 / 151 // ___क्तप्रत्ययान्तं सर्व बहुव्रीही पूर्व निपतति / कृतः कटोऽनेन कृतकटः / बहुवचनं व्याप्त्यर्थम्, तेन कृतप्रिय इत्यत्र 'प्रिय' (3 / 1 / 157) इति सूत्रेणापि स्पर्द्ध सति क्तान्तस्य प्राग् निपातः // 151 // अ० क्तान्तस्य विशेषणत्वात् 'विशेषणं०' (3 / 1 / 96) इत्यनेनैवसिद्धयति / विशेष्यार्थं तु वचनम् / कटे कृतमनेन इति युक्त्यापि वाक्ये कृते कृतकट इति सिद्धम् / अथवा स्पर्द्ध परत्वार्थं वचनमिदम्, तेन कृतभव्यकटः कृतविश्व इति सिद्धम् // 151 / / जातिकालसुखादेर्न वा // 3 / 1152 // जातिवाचिकालवाचिशब्देभ्यः सुखादिशब्देभ्यश्च बहुव्रीही पूर्व क्तान्तं वा निपतति / जाति, शाङ्गरजग्धी जग्धशाङ्गरा / पाणिगृहीती गृहीतपाणिः / कटकृतः कृतकटः / मासयाता यातमासा / मासगतः गतमासः। 1. विशेषणविशेष्योः बहुव्रीही प्रथमोक्तत्वेऽपि विशेषणमेव पूर्व निपतति यथा चित्रगुः, विशेषणसर्वादेर्बहुव्रीही एतत् सूत्रोदितशब्दक्रमेण पर एव पूर्व निपतति यथा सर्वश्वेतः, एवं विशेषणसंख्ययोः बहुव्रीही संख्या पूर्वं निपतति यथा षडुन्नतः, सर्वादिसंख्ययोर्बहुव्रीही संख्यैव, यथा त्र्यन्यः उभयोः सर्वादित्वे बहुव्रीहावपि संख्येव यथा द्वियुष्मत्कः इत्येवं अस्मिन् सूत्रे विशेषो विज्ञेयः /

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310