Book Title: Madhyam vrutti vachuribhyamlankrut Siddhahemshabdanushasan Part 01
Author(s): Kshamabhadrasuri, Ratnajyotvijay
Publisher: Ranjanvijayji Jain Pustakalay

View full book text
Previous | Next

Page 268
________________ श्रीसिद्धहेमशब्दानुशासने तृतीयाध्यायस्य प्रथमः पादः अ० आदिशब्दात् शिरसिगडुः गडुशिराः, शिरस्यरुः, अरुशिराः, मध्येगुरुः गुरुमध्यः, अन्तेगुरुः गुर्वन्त इति गड्वादिः / / 156 / / प्रियः // 3 // 1157 // __प्रियशब्दो बहुव्रीहौ प्राग्वा निपतति / प्रियगुडः गुडप्रियः / प्रियविश्वः विश्वप्रियः / प्रियचत्वाः चतुष्प्रियः // 157 // कडारादयः कर्मधारये // 3 / 1 / 158 // कडारादिशब्दाः कर्मधारये पूर्व वा निपतन्ति / कडारजैमिनिः जैमिनिकडारः। काणद्रोणः द्रोणकाणः / गौरगौतमः गौतमगौरः / बहुवचनमाकृतिगणार्थम्, तेन नटबधिरादयोऽपि // 158 // ___ अ० जेमिनस्यापत्यं जैमिनिः, बाह्वादि० (6 / 1 / 32) रितीन् / कडारः-कपिलवर्णः / जैमिनिश्चासौ कडारश्च / एवं पिङ्गलमाण्डव्यः माण्डव्यपिङ्गलः / वृद्धमनुः मनुवृद्धः / बढरच्छान्दसः छान्दसबढर इत्यपि / कडारादिशब्दानां 'गुणवचनत्वात्, द्रव्यशब्दात् नित्यं पूर्वनिपाते प्राप्ते पक्षे परनिपातार्थं 'कडारादयः कर्मधारये' इति सूत्रं कृतम् // 158|| धर्मार्थादिषु द्वन्द्वे // 3 // 1159 // धर्मार्थादौ द्वन्द्वे समासेऽप्राप्तपूर्वनिपातं पूर्व वा निपतति / धर्मायौ, अर्थधर्मों / कामार्थों, अर्थकामौ / शब्दार्थों, अर्थशब्दौ / आद्यन्तौ, अन्तादी / चन्द्रार्की, अर्कचन्द्रौ / सर्पिर्मधुनी, मधुसर्पिषी / गुणवृद्धी, वृद्धिगुणौ / दीर्घलघू, लघुदी? / चन्द्रराहू, राहुचन्द्रौ / कुशकाशम्, काशकुशम् / चन्द्रादित्यौ, आदित्यचन्द्रौ / एषु सर्वत्र लघ्वक्षरेति नित्यं पूर्वनिपाते प्राप्ते विकल्पार्थं वचनमिदम्, बहुवचनमाकृतिगणार्थम्, तेन वसन्तग्रीष्मी, ग्रीष्मवसन्तौ / शुक्रशुची, शुचिशुक्रावित्यादयो ज्ञेयाः // 159 // ___ अ० धर्मार्थी इत्यारभ्य अर्कचन्द्रौ यावत् लघ्वक्षरेति सूत्रेण स्वरादि अदन्तद्वारेण नित्यं पूर्वनिपात प्राप्तिः / तथा सर्पिर्मधुनीत्यारभ्य राहुचन्द्रौ यावत् ‘लघ्वक्षर०' (3 / 1 / 160) इति वक्ष्यमाणसूत्रेण इदुदन्तद्वारेण नित्यं पूर्वनिपातप्राप्तिः / तथा कुशकाशेत्यत्र 'लघ्वक्षर०' इत्यनेन लघ्वक्षरद्वारेण नित्यं पूर्वनिपातप्राप्तिः / चन्द्रादित्येत्यत्र 'लघ्वक्षर०' इत्यनेन अल्पस्वरद्वारेण नित्यं पूर्वनिपातप्राप्तिः / तथा तपःश्रुते श्रुततपसी, द्रोणभीष्मी, भीष्मद्रोणौ, अत्र 'लघ्वक्षरे' त्यनेन अर्घ्यद्वारेण तपोभीष्मयोः पूर्वनिपातप्राप्तिः / तथा ब्राह्मणक्षत्रियवैश्यशूद्राः शूद्रवैश्यक्षत्रियविप्राः / भीमसेनार्जुनौ अर्जुनभीमौ, देवापिशंतनू शंतनुदेवापी; इत्यत्र वक्ष्यमाण मासवर्ण०' (3 / 1 / 161) इत्यादिना ब्राह्मणादेरनुपूर्वं निपातप्राप्तिः / इति धर्मार्थति सूत्रं कृतम् / / 159 // लघ्वक्षरासखीदुत्स्वराद्यदल्पस्वरा~मेकम् // 3 / 1 / 160 // पृथग् योगानवेति निवृत्तम् / लघ्वक्षरं, सखिवर्जित इकारोकारान्तं, स्वरादि अकारान्तं, अल्पस्वरं, अर्यवाचि च शब्दरूपं द्वन्द्वे प्राग् निपतति / यत्र चानेकानां प्राग्निपातसम्भवः तत्रैकमेव निपतति / लघ्वक्षरतिलमाषम्, असखीदूत्- अग्निधूमम्, पतिसुतौ, वायुतोयम्, सखिवर्जनं किम् ? सुतसखायौ, सखिसुतौ, 1. गुणवचनाः ते भवन्ति ये शब्दाः गुणप्रतिपादनमुखेन गुणिनं बोधयन्ति / 2. अर्थादिशब्दानामिति शेषः, तेन धर्मादिशब्दानामप्राप्तनिपातत्वात् ___ अनेन वा पूर्वनिपातः /

Loading...

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310